SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ ३.२६] तृतीयोन्मेषः १६९ "अप्रस्तुतप्रशंसेति" नाम्नाऽसौ कथिताऽलंकारविद्भिरलंकृतिः । कीदृशी- 'यत्र'-यस्याम् ‘अप्रस्तुतोऽपि' - अविवक्षितः (अपि) पदार्थः “वर्णनीयताम् प्राप्यते"- वर्णनाविषयः संपद्यते । कि कुर्वन् ? 'प्रस्तुतस्य'-विवक्षितस्यार्थस्य 'विच्छित्तिम्'-उपशोभाम् 'अवतारयन्'-समुल्लासयन् । द्विविधो हि तत्त्वभूत: पदार्थः संभवति । वाक्यान्तर्भूतपदमात्रसिद्धोऽर्थः सकलवाक्यव्यापककार्यों विविधस्वपरिस्पन्दातिशयत्वविशिष्टप्राधान्येन वर्तमानश्च । तदुभयरूपमपि प्रस्तुतं प्रतीयमानतया चेतसि निधाय पदार्थान्तरमप्रस्तुतं तद्विच्छित्तिसंपत्तये वर्णनीयतामस्यामलंकृतौ कवयः प्रापयन्ति । किं कृत्वा? "तत्साम्यमाश्रित्य" - "तत्– अनन्तरोक्तं रूपकालंकारोपकारि “साम्यं"-समत्वं, आश्रित्य-निमित्तीकृत्य, "संबन्धान्तरमेव वा" “संबन्धान्तरम्' – अपरं वा (संबन्ध) निमित्तभावादि संश्रित्य । “वाक्यार्थः" -- असत्य(भू)तो वा परस्परान्वितपदसमुदायलक्षणवाक्यकार्य भूतः । साम्यं संबन्धान्तरं वा समाश्रित्याप्रस्तुतं प्रस्तुतशोभाय वर्णनीयतां यत्र नयन्तीति । तत्र साम्यसमाश्रयणाद्वाक्यान्तर्भूताप्रस्तुतपदार्थप्रशंसोदाहरणं यथा लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह संप्लवन्ते । उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलिकाण्डमृणालदण्डाः ॥९५॥ इति । अत्र साम्यसमाश्रयणात् वाक्यान्तर्भूताप्रस्तुत (प्रशंसया) कविविवक्षितमुख्यपदार्थः प्रतीयते । सकलवाक्यव्यापकाप्रस्तुतार्थप्रशंसोदाहरणं यथा
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy