SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ १६८ वक्रोक्तिजीवितम् [३.२५-२६ इति। अत्र कविप्रतिभाप्रतिभासस्यायमभिप्रायः यत् लोकोत्तरसौन्दर्यातिशयश्लाघितया वर्णनीयस्य वस्तुनः प्रकारान्तरेणाभिधातुमशक्यत्वम् । एवंविधया रूपकालंकाररेखयापि तथा प्रसिद्धयभा वादेव निष्कम्पतया व्यवहर्तुं न युज्यते । तस्मादस्माक मेवंस्वरूपमेवेदं वर्णनीयं वस्तु प्रतिभातीत्यलंकारान्तरमत्प्रेक्षालक्षणमत्र सहायत्वेनोल्लिखितम् । यथा वा "किं तारुण्यतरोः” ॥९३॥ इत्यादि । अत्राध्ययमेव न्यायोऽनुसन्धेयः । केवलमनेन क विना सर्वातिशायितया वर्णनीयस्य प्रकारान्तरस्य प्रस्तुतसौकुमार्यसमर्पणसामर्थ्यासंभवादेवस्वरूपस्य रूपकस्य मुखेन्दुरित्यादिवदप्रसिद्धः । केवलस्योपनिबन्धे “चकितत्वादेवंविधं किमेतद्वस्तु स्यादिति सन्दिहयते मम चे तसा" इति विच्छित्त्या ससन्देहालंकारसहायमेतदेवोपनिबद्धमिति चेतस्विनां स्वसंवेदनमेवात्र प्रमाणम् । रूपकरूपकं नाम- “भ्रूलतानर्तकी " ॥९४॥ इत्यादि लक्षणान्तरस्यासंभवात् उदाहरणमात्रादेव पृथङ नोपपद्यते, लक्षणानन्त्यप्रसङ्गात्, पुनरपि रूपकान्तरावता रोपपत्तेश्चा - नवस्थाप्रवर्तनात् । एवं रूपकं विचार्य तत्सदृशसाम्यनिर्वचना मप्रस्तुतप्रशंसा प्रस्तौति अप्रस्तुतोऽपि विच्छित्ति प्रस्तुतस्यावतारयन् । पदार्थो वाथ वाक्यार्थः प्राप्यते वर्णनीयताम् ॥२५॥ यत्र तत्साम्यमाश्रित्य संबन्धान्तरमेव वा । अप्रस्तुतप्रशंसेति कथितासावलंकृतिः ॥२६॥ अप्रस्तुतेत्यादि । “अप्रस्तुतप्रशसेति (कथितासाव)लकृति:"
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy