________________
____ १६७
१६७
३.२४]
तृतीयोन्मेषः लावण्यकान्तिपरिपूरितदिङमखऽस्मिन् स्मेरेऽधुना तव मुखे तरलायताक्षि । क्षोभं यदेति न मनागपि तेन मन्ये
सुव्यक्तमेव जल (ड) राशिरयं पयोधि: ।। ९१॥ अत्र त्वन्मुखमिन्दुरिति रूपकं प्रतीयमानतया कविनोपनिबद्धम् । एकदेशवृत्तित्वमनेकदेशवृत्तित्वं च रूपकस्य दीपकत्वमेव समालक्ष्यमिति तदनन्तरमस्योपनिबन्धनम् । तदेव विच्छित्त्यन्तरेण विशिनष्टि
नयन्ति रूपकं कांचिद्वक्रमावरहस्यताम् ।
अलंकारान्तरोल्लेखसहायं प्रतिभावशात् ॥२४॥ एतदेव रूपकाख्यमलंकरणं "कांचित्" = अलौकिकों "वक्रभावरहस्यतां" वक्रत्वपरमार्थतां कवयो “नयन्ति" (प्रापयन्ति)। तत्रोपनिबन्धनवक्रताविच्छित्त्यन्तराधिरूढाया: रमणीयता (याः) तदेव तत्त्वं परं प्रतिभासते। कीदृशम् ? “अलंकारान्तरोल्लेखसहायम्"-- “अलंकारान्तरस्य" = अन्यस्य ससन्देहोत्प्रेक्षाप्रभृते:, “उल्लेखः”, समुद्भदः, (तत्र) “सहाय:” काव्यशोभोत्पादने सहकारी यस्य (तत्तथोक्तम् ) । कस्मात्रयन्ति - “प्रतिभावशात्"स्वशक्तेरायत्तत्वात् । तथाविधे लोकातिक्रान्तकान्तिगोचरे विषये तस्योपनिबन्धो विधीयते । यत्र तथाप्रसिद्धयभावात् सिद्धव्यवहारावतरणं साहसमिवावभासते। विभूषणान्तरसहायस्य पुनरुल्लेखत्वेन विधीयमानत्वात् सहृदयहृदयसंवादसुन्दरी परा प्रौढिरुत्पद्यते। यथा
निर्मोकमुक्तिरिव गगनोरगस्य लीलाललाटिकामिव त्रिविष्टपविटस्य ॥९२॥