________________
वक्रोक्तिजीवितम्
[३.२३
स्मिन्नुपनिबध्यमाने समस्तेऽपि वर्तन्ते रूपान्तरेणावतिष्ठन्ति । यथा
१६६
मृदुतनुलता वसन्तः सुन्दर वदनेन्दुबिम्बसितपक्षः । मन्मथमातङ्गमदो जयत्यहो तरुणतारम्भः ॥ ८९ ॥
अत्रैव प्रकारान्तरं विचारयति
-
" एकदेशविवर्ति च" इति ।
अत्र पूर्वाचार्यैर्व्याख्यातम् - यथा यदेकदेशेन विवर्तते विघट विशेषेण वा वर्तते तत्तथोक्तमिति । उभयथाप्येतदुक्तं भवतियद्वाक्यस्य कस्मिंश्चिदेव स्थाने स्वपरिस्पन्दसमर्पणात्मकं रूपणमादधाति । ववचिदेवेति तदेकदेशविवर्तिरूपकम् । यथा
हिमाचलसुतावल्लीगाढालिङ्गितमूर्तये । संसारमरुमार्गेककल्पवृक्षाय ते नमः ।। ९० ।।
-
"
एकदेशविवर्तो यत्र तत्तथोक्तम्, एकदेश एव विवर्तते यत्र रूपान्तरेणावतिष्ठते (वा तदेकदेशविवर्ति) रित्यर्थः । तेषां विशेषणसामर्थ्यनिबन्धनायाः पदार्थ शोभायाः (अत्र ) रूपातिशयकारिरूपकालङ्कारनिष्पत्तेः । यथा “ उपोढरागेण" इत्यादी तिमिरांशुकमित्यत्रैकदेशविवर्ति (रूपणं) विद्यते । शिष्टं पुनः शशिनः कामुकत्वं, निशायाश्च कामिनीत्वं रूपणीयमपि प्रतीत्यन्तरविधायि विशेषणविशिष्टिलिङ्गसामर्थ्य मात्र समधिगम्यं शब्देनाभि ( धीयमानं ) पुनरुक्तर्ता ग्राम्यर्ता चाधिरोहति । तस्मात्
वाच्यं सामर्थ्यलभ्यं च प्रतीत्या च समर्पितम् । अलंकृतीनामात्मानं त्रिविधं तद्विदो विदुः ॥ २३ ॥
तत्र वाच्यं समस्तवस्तुविषयं रूपकं पूर्वमेवोदाहृतम् । सामर्थ्यलभ्यं तद् (तु) एकदेशविवर्ति तदेव “ उपोढरागेणे "त्यादि । प्रतीयमानं यथा