________________
३.२२]
. तृतीयोन्मेषः .. "समस्तवस्तुविषयम्" इति । समस्तवस्तु विषयो यस्य तत्तथोक्तं; तदयमत्र वा(क्या)थः-यत् सर्वाण्येव प्राधान्येन वाच्यतया सकलवाक्योपारूढान्यभिधेयानि अलंकार्यतया सुन्दरस्वपरिस्पन्दसमर्पणेन गोचरो यस्येति तत् । विशेषणानां विशेष्यायत्तत्वात् अस्वातन्त्र्येण पृथगलंकार्यत्वाभावात्तेषामविषयत्वात् । यथा ।
तडिद्वलयकक्ष्याणां बलाकामालभारिणाम् ।
पयोमुचां ध्वनि/रो दुनोति मम तां प्रियाम् ॥८८॥ इति । अत्र विद्युद्वलयस्य कक्ष्यात्वेन, बलाकानां तन्मालात्वेन रूपणं विद्यते; पयोमुचां पुनर्दन्तिभावेन नास्तीत्येक (देश)विवर्तिरूपकमलंकारः । तदत्यर्थं युक्तियुक्तम् । यस्मादलंकरणस्यालंकार्यशोभातिशयोत्पादनमेव प्रयोजनं नान्यत्किंचिदिति । तदुक्तरूपकप्रकारापेक्षया किंचिद्विलक्षणमेतेन यदि संपाद्यते तदेतस्य रूपकप्रकारान्तरत्वोपपत्तिः स्यात् । तदेतदास्तां तावत्; प्रत्युत कक्ष्यादिरूपणोचितमुख्यवस्तुविषये विघटमानत्वादलंकारदोषत्वं दुर्निवारतामवलम्बते । तस्मादन्यथैवैतदस्माभिः समाधीयते।
रूपकालंकारस्य परमार्थस्तावदयं, यत्प्रसिद्धसौन्दर्यातिशयपदार्थसौकुमार्यनिबन्धनं वर्णनीयस्य वस्तुनः साम्यसमल्लिखितं स्वरूपसमर्पणग्रहणसामर्थ्यमविसंवादि । तेन मुखमिन्दुरित्यत्र मखमेवेन्दुः संपद्यते तेन रूपेण विवर्तते । तदेवमयमलंकारः (पदपूर्वार्धवक्रतानिबन्धनः प) दार्थमात्रवृत्तिः “अलंकारोपसंस्कार-" इत्यादिना पर्यायवक्रभावान्तर्भावात् वाक्यवक्रभावविचारावसरे वक्तव्यतामेव कदाचिन्नाधिगच्छेदिति । द्वैविध्यमस्योपपादयति(समस्तवस्तुविषयं एकदेशविवर्ति चेति) सर्वे वाक्योपयोगिनः पदार्थाः (प्रत्येक) विभूष्यतया विषया यस्येति प्रत्येकं यथायोगमेत