________________
वक्रोक्तिजीवितम्
[३.२२ “रूपकं” = रूपकाख्यमलंकारं विदुर्जना इति। कीदृशं --“यदर्पयति” “यत् ” कर्तृभूतम् “अर्पयति" विन्यस्यति । कि- “स्व” = आत्मीयं “रूप” वाच्यस्य वाचकात्मकं परिस्पन्दम् , अलंकारप्रस्तावादलंकारस्यैव स्वसंबन्धित्वात् । किं कुर्वत्- “साम्यमुद्वहत्" = समत्वं धारयत्। अन्यच्च (कीदृशं साम्यं) “वर्णनीयस्य विच्छित्तेः कारणम्” “वर्णनीयस्य" =प्रस्तावाधिकृतस्य पदार्थस्य "विच्छित्तः" = उपशोभायाः "कारणं" = निमित्तभूतम्, न पुनर्जन्यत्व प्रमेयत्वादिसामान्यं, यस्मात्तेनैव पूर्वोक्तलक्षणसाम्येन वर्णनीयं सहृदयहृदयाह्लादकारितामवतरति । “उपचारैकसर्वस्वं" "उपचारः" = तत्त्वाध्यारोपः, तस्यैकं सर्वस्वं केवलमेव जीवितं, तन्निबन्धनत्वात् रूपकप्रवृत्तेः। यस्मादुपचारवक्रताजीवितमेतदलंकरणमिति प्रथममेव समाख्यातं “यन्मला सरसोल्लेखा रूपकादिरलंकृति: " इति । तदेव पूर्वसूरिभिरभ्यधायि ।।
तदेवं मुखमिन्दुरिति रूपकमलंकरणम् । तत्किमन(योः) (विशेषणविशेष्ययोः) भिन्नस्वरूपयोः सामानाधिकरण्यस्य कारणम्? उच्यते । इन्दुशब्दः प्रथममाञ्जस्येन चन्द्रमसि वर्तमानः प्रत्यासत्तिनिबन्धन (त्वाद्) अतिकान्तिमत्त्वादिगुणवृत्तितामवलम्बते । ततस्तस्मादेतत्सदृशवक्तृगतगुणवृत्तिः सन् वदनविशेषणतां प्रतिपद्यमानश्चेतनचमत्कारितां प्रतिपद्यते।
(उपमेयशब्दः) स्वाभिधे (याविना) भतवृत्तितां (उपमान)शब्दस्य नियमयतीत्येतस्मादेव विशेषणविशेष्यभावनिबन्धनात् मुखेन्दुरित्यत्र समासोपपत्तिः । तस्मादेव च सहृदयहृदयसंवादमाहात्म्यात् “मुखमिन्दुः" इत्यादि न केवलं रूपकं, यावत् " किं तारुण्यतरो: "इत्येवमाद्यपि ।
एवं रूपकसामान्यलक्षणस्वरूपमुल्लिख्य प्रकारपर्यालोचनेन तदेवोन्मीलयति