________________
३.२०-२२] तृतीयोन्मेषः
१६३ "मदो जनयति प्रीति सानङ्गं मानभङ्गरम्” ॥८७ ।।
इत्यादि । [ननु पूर्वाचार्यैश्चैतदेव पूर्व मुदाहृतं, तदेव प्रथमं प्रत्याख्यायेदानी समाहितमित्यस्याभिप्रायो व्याख्यातव्य: । सत्यमुक्तम् । तदयं व्याख्यायते-क्रियापदमेकमेव दीपकमिति तेषां तात्पर्यम् , अस्माक पुनः कर्तृपदानि दीपकानि बहूनि संभवन्ति इति । - (अत्र) प्रीत्यादीनां प्रागभावात् , तेषां सतामभूतप्रादुर्भावं विदधातीति नाभिधीयते, मदादिनियतकारणत्वाभावात्। अपि तु स्वसंवृत्तानां कमध्यपूर्व मतिशयमुत्पादयति । जनयतीति क्रियापदस्यार्थः यौवनं पर मङ्गनानां लावण्यं जनयतीति । अथवा ज्वलयतीति पाठान्तरं परिकल्प्योदाहार्यम् । इदानीमेतदेवोपसंहरति
यथायोगिक्रियापदं मनःसंवादि तद्विदाम् ।
वर्णनीयस्य विच्छित्तेः कारणं वस्तु दीपकम् ॥२०॥ " यथायोगिक्रियापदम्' = यथा येन प्रकारेण युज्यते इति यथायोगि, क्रियापदं यस्य तत्तथोक्तं तेन यथासंबन्धमनुभवितुं शक्नोति । यथा दीपके क्रिया, “तद्विदां'' काव्यज्ञानां (“ मनःसंवादि") मनसि संवदति = चेतसि प्रतिफलति यत् (तदपि) तथोक्तम् । (एवं दीपकमभिधाय) साम्यप्रायं रूपकं विविनक्ति
उपचारकसर्वस्वं (यत्र तत्) साम्यमुद्वहत् । यदर्पयति रूपं स्वं वस्तु तद्रूपकं विदुः ॥२१॥ वर्णनीयस्य विच्छित्तेः कारणं (द्विविधं स्मृतं)।
समस्तवस्तुविषयमेकदेशविवर्ति च ॥२२॥ उपचारेत्यादि। “वस्तु तद्रूपकं विदुः”—“तद्वस्तु” = पदार्थस्वरूपं