________________
वक्रोक्तिजीवितप् १६२
[३.१९ [अपरं त्रिप्रकारं च क्वचिद्भयांसि भूयसा ।
दीपकं दीपयत्यन्यत्तदन्यद्दीपयन्मतम् ॥१९॥] तदपर पक्तिसंस्थं नाम (अवस्थाभेद) कारणात् “त्रिप्रकारं" त्रयः प्रकाराः प्रभेदाः यस्येति विग्रहः । तत्र प्रथमस्तावत् अनन्तरोक्तो भूयांसि भूयसां क्वचिद्भवन्तीति ।
द्वितीयो “दीपकं दीपयत्यन्यत्तदन्यत्" इति (यद)न्यस्यातिशयोत्पादकत्वेन दीपकम् । यद्विहितं तत्कर्मभतमन्यत् कर्तृभूतम् । "दीपयति" = प्रकाशयति, “तदप्यन्यद्दीपयति" इति । द्वितीयदीपकप्रकारो यथा
क्षोणीमण्डलमण्डनं नृपतयस्तेषां श्रियो भूषणं ताः शोभां गमयत्यचापलमिदं प्रागल्भ्यतो राजते । तद्भष्यं नयवर्मना तदपि चेत् शौर्यक्रियालंकृतं
बिभ्राणं यदियत्तया त्रिभुवनं छेत्तुं व्यवस्येदपि ।। ८४ ॥ अत्रोत्तरोत्तराणि पूर्वपूर्वपददीपकानि मालायां कविनोपनिबद्धानि । यथा वा
शुचि भूषयति श्रुतं वपुः प्रशमस्तस्य भवत्यलंक्रिया ।
प्रशमाभरणं पराक्रमः स नयापादितसिद्धिभूषणः ॥८५॥ यथा च
चारुता वपुरभूषयदासां तामनूननवयौवनयोगः ।
तं पुनर्मकरकेतनलक्ष्मीस्तां मदो दयितसंगमभूषः ।। ८६ ।। तृतीयप्रकारोऽत्रव श्लोकार्धे दीपकशब्दस्थाने दीपितमिति पाठान्तरं विधाय व्याख्येयः । तदयमत्रार्थो य“द्दीपितं' यदन्येन केनचिदुत्पादितातिशयसं (पन्नं) वस्तु तत्कर्तृभूतमन्यत् दीपयत् उत्तेजयत् तदन्यदिति । यथा