SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ ३.१८] तृतीयोन्मेषः १६१ कविकेसरी वचनानां मौक्तिकरत्नानामादिवैकटिकः । स्थानास्थानं जानाति कुसुमानां च जीर्णमालाकारः ॥ इति छाया । चिरन्तने रेतदेवोदाहृतं तच्चायुक्तमिति पूर्वपक्षतां प्रापितमिदानीं किमेतस्याप्यतिरिक्तत्वमायाति, येन सिद्धान्तसिद्धमनपादेयतामधितिष्ठति ? युक्तमुक्तम् । किं तु तैर्वाक्यैकदेशवृत्ति क्रियापदं कारकाणि बहूनि स्वसंबन्धितया प्रकाशयदेकं दीपकमित्यभिहितम्, ( वयं ) पुनस्तान्येव कारकाणि वर्णनीयानां वस्तूनां कमप्यतिशयं प्रकाशयन्ति बहूनि दीपकानीति ब्रूमः । तथा च “स्थानास्थानं जानाति " इत्यस्यायमभिप्रायः । प्रस्तुतवस्तुशोभातिशयावहं कमप्यवकाशविशेषं वेत्तीति । किमुक्तं भवति ? कविकेसरी पदानामुपनिबन्धविदग्धतया कमपि छायातिशयमुत्पादयति, मौक्तिकरत्नानां चादिवैकटिकः, कुसुमानां च जीर्णमालाकार इति । यद्यपि पदानां केसरिप्रभृतीनां च सजातीयापेक्षया परस्परप्रतीयमानवृत्तिसाम्यं समुद्भासते, तथापि प्राधान्याद्दीपकं तात्पर्य - पर्यवसितम् । वाक्यार्थेन साम्यं पुनः नात्र परिभासते । यथा वा चन्द्रमऊ एहिं णिसा गलिनी कमलेहिँ कुसुमगुच्छेहि लआ । हंसेहिँ सारअसोहा कव्वकहा सज्जनेहिँ करइ गरुई ||८३ || चन्द्रमयूर्खेनिशा नलिनी कमलैः कुसुमगच्छता । हंसश्शारदशोभा काव्यकथा सज्जनः क्रियते गर्वी ॥ इति छाया । अत्र ऐ (न्दव मयखादिभि ) रेताः सर्वाः समुल्लासितशोभातिशयाः संपद्यन्त इति कर्तृपदान्येव बहूनि दीपकानि । शिष्टं पूर्ववदेव सर्वं समादेयम् ।
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy