________________
१६० वक्रोक्तिजीवितम्
[३.१८ औचित्यावहमित्यादि। “वस्तु दीपकं" वस्तु सिद्धरूपमलंकरणं । भवतीति संबन्धः, क्रियान्तराश्रवणात् । तदेवं सर्वस्य कस्यचिद्वस्तुनः सद्भावात्तदापत्तिरित्याह-"दीपयत्" प्रकाशयदलंकरणं संपद्यते। किं कस्येत्यभिधत्ते-"धर्म" =परिस्पन्दविशेषम्, “अर्थानां" = वर्णनीयानाम् । कीदृशं-"अशक्तम्" = अप्रकटम्, तेनैव प्रकाशमानत्वात् । किस्वरूपं च-"औचित्यावहं" = औचित्यमौदार्यमावहति यः तं तथोक्तम् । अन्यच्च किंविधम्-"अम्लानं" = प्रत्यग्रमनालीढमिति यावत्। एवंविधस्वरूपत्वात् “तद्विदाह्लादकारणं" = काव्यविदानन्दनिमित्तम् ।। अस्यैव प्रकारान्तरान् निरूपयति
एकं प्रकाशकं, सन्ति भूयांसि भूयसां क्वचित् ।
केवलं पङ्क्तिसंस्थं वा द्विविधं परिदृश्यते ॥१८॥ एकमिति । “द्विविधं परिदृश्यते" = द्विप्रकारमवलोक्यते लक्ष्य विभाव्यते । कथं ? "केवलं " = असहायं, “पक्तिसंस्थं वा" पङ्क्तौ व्यवस्थितं तत्तुल्यकक्षायां सहायान्तरोपरचितायां वर्तमानम् । कथम् ? “एक" (भयसा) बहूनां पदार्थानामेकं “प्रकाशकं" दीपकं केवलमित्युच्यते । यथा वा
असारं संसारम् ॥ ८१॥ इत्यादि । अत्र "विधातुं व्यवसितः" कर्ता संसारादीनामसारत्वप्रभृतीन् धर्मान् उद्योतयन् दीपकालंकारतामवाप्तवान् । __पङ्क्तिसंस्थं (?) “भूयांसि” = बहूनि वस्तूनि दीपकानि “भूयसां" प्रभूतानां वर्णनीयानां " सन्ति वा क्वचित्" भवन्ति वा कस्मिंश्चिद्विषये। यथा
कइकेसरी वअणाणा मोतिअरअणाणा आइवेअटिओ। ठाणाठाण जाणइ कुसुमाण अ जीणमालारो ॥ ८२ ।।