________________
३.१७]
तृतीयोन्मेषः
मेव । यथा
आदिमध्यान्तविषयाः प्राधान्येतरयोगिनः । ।
अन्तर्गतोपमाधर्मा यत्र तद्दीपकं विदुः ॥७८॥ उदाहृतं च ग्रन्थान्तरे यथा
चंकम्मन्ति करीन्दा दिसागअमअगन्धहारिअहिअआ। दुःख बणे च कइणो भणिइविसममहाकइमग्गे ॥७९॥ चंक्रम्यन्ते करीन्द्रा दिग्गजमदगन्धहारितहृदयाः ।
दु:खं वने च कवयो भणितिविषममहाकविमार्गे॥ इति छाया। अत्र (प्रस्तुताप्रस्तुतविषयसामर्थ्यसंप्राप्त)साम्यसमुल्लसितं सहदयहृदयाह्लादकारि काव्यरामणीयकं स्वरूपमेव । क्रियापदं पुनर्वाक्याविनाभावि वाक्यान्तरवद् व्यवस्थितम्, अत्रैव पदान्तरवच्च । (अयम)त्र वाक्यार्थः । यथा - दिक्कुञ्जरमदामोदसुहितमानसाः करीन्द्राः कानने कथमपि दुःखं चंक्रम्यन्ते, तथा भणितिविषमे वक्रोक्तिविचित्रे महाकविमार्गे कवय इति चशब्दस्यार्थः। ते हि साभिमानाः सन्तः तदतिरिक्तपरिस्पन्दतया वर्तितुमीहमानाः कृच्छ्रेण समाचक्षिरे इत्यभिप्रायः ।
तस्मात् साम्यकजीवितमलंकरणमिदं प्रतीयमानत्वान्मनोहारि प्रकारान्तरम् । (यत्र) त्रिविधं हि प्रतीयमानवृत्तिसाम्यं समुद्भासते तत्रायमेव न्यायोऽनुसन्धयः । शिष्टं पुनर्वार्तामात्रमेव, यथा ___ गतोऽस्तमर्को भातीन्दुर्यान्ति वासाय पक्षिण: ॥८०॥
इति । तदिदानी दीपकमलंकारान्तरकरणं कलयन् कामपि काव्यकमनीयतां कल्पयितुं प्रकारान्तरेण प्रक्रमते
औचित्यावहमम्लानं तद्विदाह्लादकारणम् । अशक्तं धर्ममर्थानां दीपयद्वस्तु दीपकम् ॥१७॥