________________
१५८
वक्रोक्तिजीवितम्
[३.१६ मदो जनयति प्रीति सानङ्ग मानभङ्गरम । स प्रियासङ्गमोत्कण्ठां साऽसह्यां मनसः शुचम् ॥ ७५ ।। मालिनीरंशुकभृतः स्त्रियोऽलंकुरुते मधुः । हारीतशुकवाचश्च भूधराणामुपत्यकाः ॥ ७६ ॥ चौरीमतीररण्यानीः सरितः शुष्यदम्भसः ।
प्रवासिनां च चेतांसि शुचिरन्तं निनीषति ।।७७॥ अत्र क्रियापदानां दीपकत्वं प्रकाशकत्वम्, यस्मात् क्रियापदैरेव प्रकाश्यन्ते स्वसंबन्धितया ख्याप्यन्ते ।
___ तदेवं सर्वस्य कस्यचिद्दीपकव्यतिरेकिणोऽपि क्रियापदस्यैकरूपत्वात् दीपकाद्वैतं प्रसज्यते । __किं च शोभातिशयकारित्वस्य युक्तिशून्यत्वे अलंकरणत्वानुपपत्तिः । अन्यच्चास्तां तावक्रिया। एवं यस्य कस्यचिद्वाक्यवर्तिन: पदस्य संबन्धितया पदान्तरद्योतनं स्वभाव एव । परस्परान्वयसंबन्धनिबन्धनत्वात् वाक्यार्थस्वरूपस्येति पुनरपि दीपकवैश्वरूप्यमायातम् । आदौ मध्ये चान्ते वा व्यवस्थितं क्रियापदमतिशयमासादयति येनालंकारतां प्रतिपद्यते (इति चेत्) तेषां च वाक्यादीनां परस्परं तथाविधः कः स्वरूपातिरेक: (विशेषः)सँभवति । क्रियापदप्रकारभेदनिबन्धनं वाक्यस्य यदादिमध्यान्तं तदेतदर्थकवाक्यादिष्वपि संभवतीत्येवमपि दीपकप्रकारानन्त्यप्रसङ्गः । दीपकालंकारविहितवाक्यान्त तिनः क्रियापदस्य भ्वादिव्यतिरिक्तत्वमेव काव्यत्वव्यपदेशः ।
यदि वा समानविभक्तीनां बहूनां कारकाणामेकं क्रियापदं प्रकाशकं दीपकमित्युच्यते, तत्रापि काव्यच्छायातिशयकारितायाः किं निबन्धनमिति वक्तव्यमेव। प्रस्तुताप्रस्तुतविषयसामर्थ्यसंप्राप्तप्रतीयमानवृत्तिसाम्यमेव नान्यत्किचिदित्यभियुक्ततरैः प्रतिपादित