________________
____ १५७
३.१६]
तृतीयोन्मेषः प्ययमेव समन्वयः सहृदयैः स्वयमनुसन्धेयः । यथा
लग्नद्विरेफाञ्जनभक्तिचित्रं मुखे मधुश्रीस्तिलकं निवेश्य । रागेण बालारुणकोमलेन
चतप्रवालोष्ठमलंचकार ॥७॥ अत्र समारोपितनायिकावृत्तान्तस्य श्लेषच्छायासहायस्य रूप (कस्य तद्वदा) चरणात् रसवदलङ्कारत्वम् ।
यदपि नीरसप्रायं पदार्थजातं तदपि सर्वमनेनैव सरसतामुपपद्यते । यथा
“बालेन्दुवक्राणि” ॥७२॥ इति । तदेवमयं सकलकाव्योपनिषद्भत: काष्ठकुड्योपमानां पदा
र्थानामलंकाराणां किमपि स्फुरितं समर्थयंश्चेतनचमत्कार कारिताया: कारणतां प्रतिपद्यते ।
अयं स रसवन्नाम सर्वालंकरणाग्रणी: । चडामणिरिवाभाति कायोत्कर्षंककारणम् ॥७३ ।। कविकौशलसर्वस्वमद्योद्घाटितमञ्जसा। विपश्चितां विचारस्य गोचरत्वं गमिष्यति ॥७४॥
इत्यन्तरश्लोको।
एवं नीरसानां पदार्थानां सरसतां समुल्लासयितुं रसवदलंकारं समासादितवान् । इदानी स्वरूपमात्रणवावस्थितानां वस्तूनां कमप्यतिशयमुद्दीपयितुं दीपकालंकारमुपक्रमते । तच्च प्राचीनाचारादिदीपकं मध्यदीपकम् अन्तदीपकमिति दीप्यमानपदापेक्षया वाक्यस्यादौ मध्येऽन्ते च व्यवस्थितं, दीपयतीति क्रियापदमेव दीपकाख्यमलंकरणमाख्यातम् । यथा