________________
[३.१६
१५६
वक्रोक्तिजीवितम्
तया रसवदलंकारत्वमनिवार्यमेव । न चालंकारान्तरे सति रसवदपेक्षानिबन्धनः संसृष्टिसंकरव्यपदेशप्रसङ्गः प्रत्याख्येयतां प्रतिपद्यते । यथा
अङ्गुलीभिरिव केशसंचयं संनिगृह्य तिमिरं मरीचिभिः । कुड्मलीकृतसरोजलोचनं
चुम्बतीव रजनीमुखं शशी ॥ ६९ ॥
अत्र रसवदलंकारस्य रूपकादीनां च संनिपातः सुतरां समुद्भासते । तत्र “चुम्बतीव रजनीमुखं शशी "ति उत्प्रेक्षालक्षणस्य रसवदलंकारस्य प्राधान्येनोपनिबन्धः । तदङ्गत्वेनोपमादीनाम् । केवलस्य प्रस्तुतरसपरिपोषापरिनिष्पत्तेः ।
ऐन्द्रं धनुः पाण्ड पयोधरेण शरद्दधानार्द्रनखक्षताभम् । प्रसादयन्ती सकलङ्कमिन्दुं
तापं रवेरभ्यधिकं चकार ।। ७० ।।
-
इति । अत्र समयसंभवः पदार्थस्वभावः तद्वाचके वादि शब्दाभिधानं विना प्रतीयमानोत्प्रेक्षालक्षणेन रसवदलंकारेण कविना कामपि कमनीयतामधिरोपितः; प्रतीत्यन्तर मनोहारिणां सकलङ्कादीनां वाचकानामुपनिबन्धात्, पाण्डुपयोधरेणार्द्रनखक्षताभमैन्द्रं धनु: दधानेति श्लेषोपमयोश्च तदानुगुण्येन विनिवेशनात् (च ) । एवं सकलङ्कमपि प्रसादयन्ती परस्याभ्यधिकं तापं चकारेत्येवंरूपः प्रकारो हि रूपकालंकारनिबन्धनः प्रकटाङ्गनावृत्तान्तसमारोप ( रमणीयः) सुतरां समन्वयं समासादितवान् । अत्रापि प्रतीयमानवृत्तेः रसवदलंकारस्य प्राधान्यं तदङ्गत्वमुपमादीनामिति पूर्ववदेव सङ्गतिः ।
यत्रापि प्रथमोद मनोहररत्यादिवदाच रणमलंकाराणां तत्रा