SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ ३.१६] तृतीयोन्मेषः १५५ अत्र स्वावसरसमुचितसुकुमारस्वरूपयोनिशाशशिनोवर्णनीयत्वं प्राधान्येन वाक्यार्थशरीरम् । तत्कान्तिकारितया रूपकालंकार: समारोपितकान्तवृत्तान्तः कविनोपनिबद्धः । स च श्लेषच्छायामनोज्ञविशेषणवक्रभावात् विशिष्टलिङ्गसामर्थ्याच्च सुतरां समुद्भासमान: काव्यस्य सरसतां समुल्लासयन् तद्विदामाह्लादमादधानः स्वयमेव रसवदलंकारतां समासादितवान् । यथा विलासिनीवल्लभादिशब्दाभिधान(मन्तरेणापि) तत्स्वरूपसमर्पणसामर्थ्य रूपकस्य सम्भवति तथैकदेशविवतिरूपकविचारावसरे सुतरां समुन्मीलयिष्यामः। न चात्र पूर्वोक्तानि दूषणानि (संसृष्टिसंकरादीनि) प्रभवितुं शक्नुवन्ति । “तथा चान्यत्र दर्शनात्” इति विषयान्तरे परिदृश्यमानत्वादनेनैवोदाहरणेन (तत्) परिहृतम्। “स्वरूपादतिरिक्तस्य परस्याप्रतिभासनात्" इत्यलंकार्यालंकरणयोरपृथग्भावस्य अलंकार्यत्वे स्वात्मनि क्रियाविरोधात्तस्यैवालंकरणत्वानुपपत्ति रुदाहरणान्तरः परिहृता । यथा चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमती रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः ॥ कर व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती ॥६६ ।। अत्र परमार्थः-प्रधानवृत्तेः शृङ्गारस्य भ्रमरसमारोपितकान्तवृत्तान्तो (रूपक) रसवदलंकारः शोभातिशयमाहितवात्। यथा वा कपोले पत्राली ॥६७॥ इत्यादौ । तदेवमनेन न्यायेन __ “क्षिप्तो हस्तावलग्न" ॥६८॥ इत्यत्र रसवदलंकारप्रत्याख्यानमयुक्तम् । सत्यमेतत्, किंतु विप्रलम्भशृङ्गार (स्याङ्ग)ता तत्र निवार्यते, शेषस्य पुनस्तत्तुल्यवृत्तान्त
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy