________________
वक्रोक्तिजीवितम्
[३.१५-१६ १५४ __ यथा स रसवन्नाम सर्वालंकारजीवितम् ।
काव्यैकसारतां याति तथेदानी विचार्यते ॥१५॥ यथेत्यादि । “यथा स रसवन्नाम' _ 'यथा' येन प्रकारेण 'सः'-पूर्वप्रख्यातवृत्तिरलंकारो (रसवन्नाम) रसवदभिधानः "काव्यकसारतां याति" कविक मैंकसर्वस्वतां प्रतिपद्यते । "सर्वालंकारजीवितं" सर्वेषामलंकाराणामुपमादीनां "जीवितं" स्फुरित भतं च संपद्यते, “तथा" तेन प्रकारेण" इदानी "अधुना "विचार्यते"- विविच्यते, लक्षणोदाहरणभेदेन वितन्यते । तमेव रसवदलंकारं लक्षयतिरसेन वर्तते तुल्यं रसवत्त्वविधानतः ।
योऽलंकारः स रसवत् तद्विदाह्लादनिर्मितेः ॥१६॥ रसेनेत्यादि । योऽलंकारः स रसवदिति । यः किलवंस्वरूपो रूपकादिः स रसवदभिधीयते । किंस्वभावः? "रसेन वर्तते तुल्यं"- रसेन शृङ्गारादिना तुल्यं वर्तते समानमातिष्ठति । यथा ब्राह्मणेन तुल्यं वर्तते ब्राह्मणवत् क्षत्रियस्तथैवासौ रसवदलंकारः । कस्मात्? "रसवत्त्वविधानतः"- रसोऽस्यास्ति इति रसवत् काव्यं, तस्य भावस्तत्त्वं, तद्विधानतः- सरसत्वसंपादनात् । (कुतः?) "तद्विदाह्लादनिर्मितेः"- तत् काव्यं विदन्तीति तद्विदः तज्ञाः, तेषामाह्लादनिमितेरानन्दनिष्पादनात् । यथा रसः काव्यस्य रसवत्तां तद्विदाह्लादं च विदधात्येवमुपमादिरप्युभयं निष्पादयन् रसवदलंकारः संपद्यते । यथा
उपोढरागेण विलोलतारक तथा गृहीतं शशिना निशामुखम् । यथा समस्तं तिमिरांशुकं तया . पुरोऽपि रागाद्गलितं न लक्षितम् ॥६५॥