________________
१५३
३.१४]
तृतीयोन्मेषः । अत्र पूर्वस्य पूर्वस्य वस्तुनः प्रधानं समर्थनमुत्तरत्र समाहित(मिति) यदुच्यते तदास्तां, समाहितशब्दवाच्यत्वे न केनचित् (निवार्यते । अलंकरणत्वं पुनर्द्वयोरपि सरसवृत्तत्वात् गुणप्रधानभावस्याभावान्न किंचिदुपपद्यते । द्वयोरपि वस्तुधर्मतया वर्णनीयत्वमेव समानं (तदर्थं घनगर्जितम) दीर्णमिवेति प्रतीतावुत्प्रेक्षा भविष्यति इत्यलमतिप्रसङ्गेन ।
तदेवं चेतनाचेतनपदार्थ भेदभिन्नं स्वाभाविकसौकुमार्यमनोहर वस्तुनः स्वरूपं प्रतिपादितम् । इदानीं तदेव कविप्रतिभोल्लिखितलोकोत्तरातिशयशालितया नवनिर्मितं मनोज्ञतामपनीयमानमालोच्यते । तथाविधभषणविन्यासविहितसौन्दर्यातिशयव्यतिरेकेण भूष्यत्वनिमित्तभूतं न तद्विदाह्लादकारितायाः कारणम् ।
प्रसिद्धो वस्तुधर्मो यो न विच्छित्याश्रयो भवेत् । . तदेवं कविमुख्यानां वर्णनायोगमास्थितः ॥ ६३ ॥
तस्य लोकोत्तरोत्कर्षलेखालगितवृत्तिभिः । - गुणैः (श्च) भासमानस्य नवत्वमुपपद्यते ॥ ६४ ।। इत्यन्तरश्लोको।
तदेवं नूतनातिशयविधायिनः काव्यार्थस्वरूपस्य अलंकाराः । ततस्तानेवोपक्रमते
अभिधायाः प्रकारौ स्तः कोऽप्येनं स्फुटयत्यसौ ।
काव्यस्य कश्चिद्विच्छित्ति द्योतयत्यङ्गतः स्थितः ॥१४॥ अभिधाया इत्यादि । रसवदलंकारादिः कश्चिदंशेन वर्तमानो विभूष्यस्य शोभातिशयमावहति । कश्चिदङ्गतो व्यवस्थितस्तस्य मुख्यतां द्योतयन्नात्मनो विभूषणभावमाविष्करोतीति चोदाहरिष्यामः । इदानीमेतदेव विभज्य विचारयति