Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy

View full book text
Previous | Next

Page 594
________________ २०९ ३.५२] तृतीयोन्मेषः नीयार्थसिद्धये” = “वर्णनीयस्य”– प्रधानत्वेन विवक्षितस्यार्थस्य “सिद्धये” =संपत्तये । तदिदमुक्तं भवति–यत्र वाक्यान्तरवक्तव्यमपि वस्तु प्रस्तुतार्थनिष्पत्तये विच्छित्त्या तेनैव वाक्येनाभिधीयते । यथा हे हस्त दक्षिण मृतस्य शिशोद्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम् । रामस्य पाणिरसि निर्भरगर्भखिन्न देवीविवासनपटो: करुणा कुतस्ते ॥ १९५ ।। अत्र मुख्यार्थसिद्धये यद् (वाक्यांन्तरा)भिधेयं वस्तु विच्छित्त्या तदेकेनैव (वाक्येनो)पनिबद्धम्। यदि च न्याय्यत्वा दवश्यं करणीयमपि निकृतिलक्षणं वस्तु करुणास्पदत्वादकरणीयकल्पं (तथापि) नवो पेक्षणीयानुष्ठानम् ; निर्भरगर्भखिन्नदेवीविवासनपटो: दाशरथे: पाणिरसीत्युचितानुरोधित्वात् कुतस्ते करुणा(संभवः) तदवध्यस्यापि शूद्रमुनेः ब्राह्मणशिशुजीवितरक्षणाय मण्डलाग्रं समर्पयेत्येकं वस्तु । द्वितीयं, यदि न्याय्यमवश्यकरणीयमपि तथाविधकारुणिकत्वादुदारचेतसा न करणीयमेवेति मन्यसे, तथापि रामस्य निर्भरगर्भखिन्नदेवीविवासनपटो: निष्करुणचूडामणेः करस्त्वमिति मुनिमारणं कियन्मानं तवेति विप्रलम्भशृङ्गारपरिपोषात् किमपि रामशब्दस्य रूढिवैचित्र्यवक्रत्वमुभयत्रापि स्फुरति । तथा च – उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि साध्वी । आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः ॥ १९६ ।। किं गतेन न हि युक्तमुपेतुं क: प्रिये सुभगमानिनि मानः । योषितामिति कथासु समेतः कामिभिर्बहुरसा धृतिरूहे ॥१९७।। अत्र विच्छित्त्या तात्पर्यार्थवाचकमुपनिबद्धम् । तथाहि-नायिकाया: सख्याश्चावबद्धयोरपि प्रत्येक वल्लभतत्सन्धानप्रवणतया सकलमेव

Loading...

Page Navigation
1 ... 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660