Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
5
३९२
[कर्णिकासमन्विता उपदेशमाला । गाथा-२४८-२४९] इन्द्रियेषु विकुर्वत्सु बलेन प्रबलेष्वथ । समुद्बबन्ध रोषेण नन्दिषेणस्तदुच्छिदे ॥५२॥ चारित्रवारिणी बन्धच्छेदं चक्रेऽस्य देवता । शस्त्राणि तस्य सा मृत्यूत्कण्ठितस्य व्यकुण्ठयत् ॥५३॥ मृत्यूपायानितिप्रायान् सा तस्य शतशोऽहरत् । तदयं गिरिमारुह्य झम्पासम्पातमातनोत् ॥५४॥ ततः पतन्तमन्तस्तं धृत्वाऽवोचत देवता । तदा नभस्थयोक्तं यन्मया स्मरसि तद्वचः ॥५५॥ किं मुधोत्तिष्ठसे मर्तुं कर्म भोगफलं यतः । अभुक्त्वा मूढ ! तद्भक्तुं शक्तास्तीर्थकृतोऽपि न ॥५६॥ तयेत्युक्तो धृतैकाकिविहारपरिकर्मणः । षष्ठात्पारणकं कर्तुं भिक्षायै निर्जगाम सः ॥५७॥ अनाभोगवशाद् वेश्यावेशदेशप्रवेशकृत् । स धर्मलाभ इत्युच्चैरुवाच वचनं मुनिः ॥५८॥ वेश्याप्याह सहासेयं धर्मलाभेन किं मम । शर्मलाभं धनेनाहमीहेय प्रत्यहं यतः ॥५९॥
मामियं हसतीत्येष तन्नीव्रतृणकम्पनात् । रत्नानीह तपोलब्धेरब्धेरिव विकीर्णवान् ॥६०॥ 10 शर्मलाभो धनेनायं तवाऽस्त्विति निगद्य सः । निर्जगाम मुनिर्वेश्याऽनुजगाम जगाद च ॥६१॥
किं ते तपोभिर्मृदुताजितपुष्कर ! दुष्करैः । भोगान् भुक्ष्व मया प्राणभतर्मर्तव्यमन्यथा ॥६२॥ तामालोक्य मुनिर्भोगकर्मरोगमहौषधीम् । अप्रियामप्यसौ मेने प्रियामिव करोतु किम् ॥६३॥ दश पुंसो दिने यत्र बोधयिष्यामि न स्वयम् । तत्राऽऽदास्ये पुनर्दीक्षां प्रतिज्ञायेति स स्थितः ॥६४॥
मुक्तर्षिलिङ्गः स तयाऽन्वहं भोगानभुङ्क्त च । दश प्रैषीच्च दीक्षायै प्रबोध्याऽनुजिनं जनान् ॥६५॥ 15 भोगकर्मण्यथ क्षीणे तस्य बोधयतो जनाः । नवाऽबुध्यन्त नाऽबुद्ध दशमो भृशमोहधीः ॥६६॥
काले रसवतीं कृत्वा संहूतो वेश्यया मुहुः । असम्पूर्णप्रतिज्ञत्वात् भोक्तुमभ्युत्थितो न सः ॥६७॥ दशमं टक्कजातीयं तस्मिन् बोधयति व्यधात् । प्रथमेऽन्ने हिमीभूते वेश्या रसवतीं नवाम् ॥६८॥ पुनर्भोक्तुं तयाऽऽहूतः सोऽब्रूत सुकृती कृती । दशमोऽहं महामोहं हित्वाऽस्म्यद्याऽऽतव्रतः ॥६९॥
अवधूय वधूमेनामध्वधूलिमिवानिलः । स पुनः स्वामिसामीप्यवर्ती भूत्वाऽऽदित व्रतम् ।।७०॥ 20 आलोचितप्रतिक्रान्ततादृग्दुश्चरितस्ततः । तपस्तप्त्वोज्ज्वलं प्राप नन्दिषेणः क्रमेण गाम् ॥७१॥
· इति नन्दिषेणकथानकम् ॥ अत्रार्थे कर्मशक्तिमेव समर्थयन्नाह
कलुसीकओ य किट्टीकओ य, खउरीकओ मलिणिओ य ।
कम्मेहि एस जीवो, नाऊण वि मुज्झई जेण ॥२४९॥ 25 कलुषीकृतश्च वाताऽऽवर्तविवर्तितरजोगुण्ठितशरीरवत्, अनेन कर्मणः स्पृष्टावस्थां लक्षयति । किट्टीकृतश्च चिक्कसतां नीतः श्लक्ष्णतमरजःपरागपरामृष्टधर्माविलकलेवरवत्, अनेन बद्धावस्था सूचिता । खपुरीकृतश्चान्योन्याऽनुवेधेन लोलीभूतः पारदमिश्रसुवर्णचूर्णवत्, अनेन निधत्ताऽवस्थामाह । मलिनितः सर्वथा स्वरूपत्यागेन मलरूपतामानीतो, गुह्यनागविद्यया नागीभूतसुवर्णवत्, अनेन निकाचितावस्थामाह । कैरित्याह
१. वेश्यावसतेप्रवेश - K, D वेश्यावेशादथप्रवेशकृत् - B, वेश्मावेशदेश....KH वेश्यावेश्यादश...HI टि. 1. धृतैकाकिविहारपरिकर्मणा येन सः । 2. गो(पुं०) स्वर्गः, तम् । 3. नागम् - सीसकम् ।

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564