Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 451
________________ ४०८ [कर्णिकासमन्विता उपदेशमाला । गाथा-२९८] विसाधितं तत् क्रीतम् ॥८॥ यद् उच्छिन्नं याचित्वा गृही दत्ते तत् प्रामित्यम् ॥९॥ यत्पुनः परावर्त्य गृही यतिभ्यो दत्ते तत् परावर्तितम् ॥१०॥ यद् ग्रामान्तराद् गृहाद्वा यतिनिमित्तमानीतं तदाहृतम् ॥११॥ यन्मुद्रितकुतुपादिमुखं यतिहेतोरुन्मुद्रय गृही घृतादि दत्ते तदुद्भिन्नम् ॥१२॥ यत् करदुर्ग्राह्यं मालादिभ्य उत्तार्य गृही दत्ते तन्मालोपहृतम् ॥१३।। यद् बलात् कस्मादपि उद्दाल्य गृही दत्ते तदाच्छेद्यम् ॥१४॥ यद् 5 बहुसाधारणम् अन्यैरदत्तं गृही एको दत्ते तदनिसृष्टम् ॥१५॥ यद् गृहिणा मूलारम्भे स्वार्थं कृते तन्मध्ये यतिनिमित्तमधिकावतारणं सोऽध्यवपूरकः ॥१६॥ इत्युद्गमदोषाः षोडश । "धाई १ दूइ २ निमित्ते ३ आजीव ४ वणीमगे ५ चिगिच्छा ६ य । कोहे ७ माणे ८ माया ९ लोहे १० हवंति दस एए ॥१॥[पि.नि./४०८] पुट्वि पच्छा संथव ११ विज्जा १२ मंते १३ य चुण्ण १४ जोगे १५ य । 10 उप्पायणाए दोसा सोलसमे मूलकम्मे १६ य" ॥२॥ [पि.नि./४०९] व्याख्या-यदा पिण्डार्थं दातुरपत्यानाम् अङ्कधारणादिना लालनं करोति तदा धात्रीदोषः ॥१॥ पिण्डार्थमेव च सन्देशकनयनाऽऽनयनादिकरणे दूत्यदोषः ॥२॥ पिण्डार्थं लाभालाभकथने निमित्तदोषः ॥३॥ पिण्डार्थं दातुः सत्कं जात्यादि स्वस्य प्रकाशयत आजीवनादोषः ॥४॥ यो दाता यद्भक्तस्तस्याऽग्रतस्तद्भक्तमात्मानं पिण्डा) दर्शयतः साधोनीपकदोषः ॥५॥ पिण्डार्थं दातृगृहे औषधादिना वमनादिना वा प्रतिकुर्वतो वैद्यादि सूचयतो वा 15 चिकित्सादोषः ॥६॥ बलविद्याराजवर्णकतपःशक्तिप्रभावादिकोपभयाद् यं लभते स कोपपिण्डः ॥७॥ प्रशंसितोऽपमानितो वा दातुरभिमानेनोत्पादितेन यल्लभते स मानपिण्डः ॥८॥ एकदा गृहाद् गृहीत्वा रूपान्तरं कृत्वा मायावशात् पुनर्ग्रहणार्थं प्रविशति स मायापिण्डः ॥९॥ कस्याऽपि वस्तुनो गृद्ध्या बहुतरम् अटतो लोभपिण्ड: ॥१०॥ जननीजनकश्वश्रूश्वशुरादिसम्बन्धं परिचयरूपं कुर्वतः पूर्वं पश्चाद्वा दानादातारं वर्णयतो वा संस्तवदोषः ॥११॥ स्त्रीरूपदेवताधिष्ठितं पूर्वसेवा-उत्तरसेवाराध्यं च सप्रभाववर्णाम्नायं पिण्डार्थं प्रयुञ्जानस्य विद्यापिण्डः ॥१२॥ 20 पुरुषदेवताधिष्ठितं पठितसिद्धं च सप्रभाववर्णाम्नायं प्रयुञ्जानस्य पुनर्मन्त्रपिण्डः ॥१३॥ अदृश्यीकरणहेतुं नयनाञ्जनादिकं पिण्डार्थं कुर्वतश्चूर्णपिण्डः ॥१४॥ सौभाग्यदौर्भाग्यफलान् पादलेपप्रभृतीन् वा योगान् पिण्डार्थमेव प्रयुञ्जानस्य योगपिण्डः ॥१५॥ मङ्गलस्नानमूलिकाद्यौषधिरक्षादिना गर्भकरणविवाहभङ्गादिवशीकरणादि च पिण्डार्थं कुर्वतो मूलकर्मदोषः ॥१६॥ इति उत्पादनादोषा अपि षोडश । "संकिय १ मक्खिय २ निक्खित्त ३ पिहिय ४ साहरिय ५ दाय ६ गुम्मीसे ७ । अपरिणय ८ लित्त ९ छड्डिय १० एसणदोसा दस हवंति" ॥१॥ [पि.नि./५२०] व्याख्या-शुद्धमपि केनाऽपि आधाकर्मादिना दोषेन जुष्टं शङ्कितमदुष्टमपि दुष्टमेव ॥१॥ म्रक्षितं सचित्तेन आगमगर्हितेन मधुमद्यादिना वा खरण्टितेन करेण भाजनेन वा यद्दत्ते तन्नक्षितम् ॥२॥ सचित्तेषु पृथिव्यादिषु अनन्तरं परम्परं वा यन्निक्षिप्तं तदनादेयम् ॥३॥ सचित्तेन फलादिना छन्नं पिहितम् ॥४॥ अयोग्यं सचित्तादि अमत्रादेरुत्सार्य यद्ददाति तत्संहृतम् ॥५॥ तथा दायकदोषा आभिर्गाथाभिरवसेयाः ॥६॥ "थेर-अपहुपंड-वेविर-जरि-अंधव्वत्तमत्तउम्मत्ते । करचरणच्छिन्नपगलिय-नियलंदुयपाउयारूढे ॥१॥ १. विगिच्छा - K, H, A, B, तिगिच्छा L । २. दौत्य - CI 25 30

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564