Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 522
________________ ४७९ [कर्णिकासमन्विता उपदेशमाला । प्रशस्तिः ।] तत्पट्टे प्रथमः शमिप्रभुरभूदानन्दसूरिः परः, सञ्जज्ञेऽमरचन्द्रसूरिरखिलाऽनूचानचूडामणिः । शश्वद्यस्य सरस्वतीप्रसरणे सिद्धेशितुः संसदि; प्राज्ञैश्चेतसि वेतसीतरुरसावाचार्यकं कार्यते ॥६॥ सिद्धान्तोपनिषन्निषण्णहृदयो धीजन्मभूस्तत्पदे, पूज्यश्रीहरिभद्रसूरिरभवच्चारित्रिणामग्रणीः । भ्रान्त्वा शून्यमनाश्रयैरतिचिराद्यस्मिन्नवस्थानतः; सन्तुष्टैः कलिकालगौतम इति ख्यातिवितेने गुणैः ॥७॥ गुरुश्रीहरिभद्रोऽयं लेभेऽधिकवच:स्थितिः । मोहद्रोहाय चारित्रनृपनासीरवीरताम् ॥८॥ [अनुष्टुब्] तत्पदे विजयसेनसूरयः, पूरयन्ति कृतिनां मनोरथान् । यद्गवी वृषमसूत नूतना कामधेनुरिव सर्वकामदम् ॥९॥ गर्वात्पूर्वमनादरैरवहितैः पश्चात्ततो विस्मितैः, प्रस्विन्नैरनुविस्मृतात्मभिरथो वादेन वादे क्षणात् । भाग्यैर्मानिमनीषिणां परिणता पुंस्त्वेन वागेष इत्याक्षिप्तैरथ सेव्यते स्म सहसा यस्सादरं वादिभिः ॥१०॥ यस्योपदेशममृतोपमितं निपीय, श्रीवस्तुपालसचिवेश्वर-तेजपालौ । सङ्घाधिपत्यमसमं जिनतीर्थतेजः-संवर्द्धनाज्जितशतक्रतु चक्रतुस्तौ ॥११॥ [वसन्ततिलका] श्रीमद्विजयसेनस्य सौमनस्यं नमस्यतः । यद्वासिता धृताः कैर्न गुणाः शिष्याश्च मूर्द्धसु ॥१२॥ [अनुष्टुब्] तस्याज्ञया विजयसेनमुनीश्वरस्य शिष्येण सेयमुदयप्रभदेवनाम्ना । योग्या विशेषविदुषामुपदेशमालावृत्तिः कथाग्रथनतोऽभिनवा वितेने ॥१३॥ [वसन्ततिलका] प्रथमादर्शे प्रथमानमानसो देवबोधविबुध इमाम् । स्थपतिरिव स्थापयिता गुरुषु नतोऽतनुत साहाय्यम् ॥१४॥ चान्द्रे कुले कलशतः किल सूरिदेवानन्दाग्र्यशिष्यकनकप्रभसूरिनाम्नः । प्रद्युम्नसूरिरुदितः कवितासमुद्रो मुष्टिंधयोऽम्बुवदशोधयदेष वृत्तिम् ॥१५॥ [वसन्ततिलका] उत्सेकितोत्सूत्रनिरूपणाद्यैर्याऽऽशातना स्यात्तनु कापि काचित् । मिथ्याऽस्तु मे दुष्कृतमत्र साक्षी श्रीसङ्घभट्टारक एव तीर्थम् ॥१६॥ [उपजातिवृत्तिम्] एकैकेन विमोहशिक्यचरणांश्छित्त्वा कषायानिमान्, दीप्ते ध्यानकृशानुधामनि मनश्चैकेन हुत्वाऽऽत्मना । मन्त्रस्याष्टशतीरितीह जपितैस्तैः पञ्चभिः सिद्धये; गाथाभिर्गुरुगुम्फिता विजयते जाप्योपदेशावलिः ॥१७॥ [शार्दूलविक्रीडितवृत्तम्] कल्पाऽऽविष्करणादितो विवरणाद्विज्ञाय विज्ञात्मना, नाम्ना यामुपदेशपद्धतिमिमामासेवमानो मुदा । १. भ्रांता - C । २. कलसतः - C, L | ३. कं न - C। ४. त्मनः - A, CI टि. 1. अनूचान: - समर्थव्याख्याता । 2. 'नेतर' इति भाषायाम्। 3. गवी - वाणी। 4. अनेन ग्रन्थस्यगाथासङ्ख्या उक्ता। (१०८ ४५-५४०) 15 20 25

Loading...

Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564