Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
४७७
[कर्णिकासमन्विता उपदेशमाला । गाथा-५३७-५४०] सम्प्रति सूत्रकार: स्वस्याभिधानव्युत्पादनेन कर्तृत्वमाचष्टे
धंतमणिदामससिगय-णिहिपयपढमक्खराण नामेण ।
उवएसमालपगरणमिणमो यं हियट्ठाए ॥५३७॥ धन्तादीनां षण्णां पदानां प्रथमाक्षराणां नाम्ना धर्मदासगणिना उपदेशमालाप्रकरणमिदं रचितं सिद्धान्तादुद्धृत्याऽर्थं सूत्रतो ग्रथितम् । हितो मोक्षः सत्त्वानुग्रहो वा, तद्धेतुत्वात्तदर्थाय तन्निमित्तमिति ॥५३७॥ 5 इदं हि प्रकरणं यस्मादर्थं गृहीत्वा विरचितं तस्य भगवद्वचनस्य कल्पतरुरूपकेण स्तवं करोति
जिणवयणकप्परुक्खो, अणेगसत्थत्थसालविच्छिन्नो ।
तवनियमकुसुमगुच्छो, सोग्गइफलबंधणो जयइ ॥५३८॥ जिनवचनं द्वादशाङ्गं तदेव यथेष्टफलदत्वात् कल्पवृक्षः । अनेकशास्त्रार्थ एव व्यापकत्वात्सच्छायाहेतुत्वाच्च शाखास्ताभिविस्तीर्णो विशालः । तपोनियमा एव मुनिमधुकरान्तःकरणप्रीतिहेतुत्वात् कुसुमगुच्छा: 10 प्रसूनस्तबका यस्मिन् स तपोनियमकुसुमगुच्छः । सुगतिः स्वर्गापवर्गों, सैव अपरिमितानन्दरसपूर्णत्वात् फलं तद्वध्यते यस्मिन्नसौ सुगतिफलबन्धनो जयति । सर्वागमान्तरेभ्य उत्कर्षेण वर्त्तते स भगवानिति ॥५३८॥ सम्प्रति परिसमाप्ति द्योतयन्, येषामियमुपदेशमाला योग्या ताननुवदति
जोग्गा सुसाहुवेरग्गियाण परलोगपत्थियाणं च । संविग्गपक्खियाणं, दायव्वा बहुस्सुयाणं च ॥५३९॥
15 योग्या उचिता सुसाधवो रत्नत्रयाराधनेन मोक्षसाधकाः सुश्रमणाः, वैराग्यं विद्यते येषां ते वैराग्यिकाः सुश्रावकाः, सुसाधवश्च वैराग्यिकाश्च सुसाधुवैराग्यिकास्तेभ्यः परलोकप्रस्थितेभ्यः पथ्यदनवत् संयमोन्मुखतया परत्र हिताभ्युद्यतेभ्यश्च उचितैव तावत् । तथा संविग्नपाक्षिकेभ्यो दातव्या बहुश्रुतेभ्यश्च विवेकिभ्यश्च चशब्दो विशेषणार्थः, तेन अन्येभ्यो दत्ता दोषोद्धोषणमात्रे पर्यवस्यति । विपरीतमतयो हि वतिनामेव केवलमेतदीयगाथाभिर्दोषानुदीरयन्ति, नात्मनः परस्य वा एतदर्थानुयायि किमपि हितमाचरन्तीति ॥५३९॥ 20
अथास्य उपदेशमालाप्रकरणस्य विधातुः श्रीधर्मदासगणेः शिष्यैर्गुरुबहुमानतोऽनुग्रथितमिदं गाथाद्वयं सम्भाव्यते । तथाहि
__ इय धम्मदासगणिणा जिणवयणोवएसकज्जमालाए ।
माल व्व विविहकुसुमा, कहिआ य सुसीसवग्गस्स ॥५४०॥ इति अनेन पूर्वोक्तप्रकारेण धर्मदासगणिना भगवता जिनवचनरूपैरुपदेशैर्हेतुभिः कार्यो गणधरै- 25 ग्रंथनीय आगमस्तस्य माला पद्धतिर्द्वादशाङ्गी । उक्तं च "अत्थं भासइ अरिहा सुत्तं गंथंति गणहरा" [आ.नि./९२ पूर्वा.] इत्यादि, तस्या जिनवचनोपदेशकार्यमालायाः सकाशादादायेति शेषः । मालेव विविधकुसुमा भव्यमधुव्रतवातप्रियतया नानाकुसुमसम्पादिता स्रगिव कथिता च उपदिष्टा सुशिष्यवर्गस्येति ॥५४०॥
१. धनादीनां - C, KH धणादीनां - D, KI २. कमपि - A, C, D, LI टि. 1. धन्त, मणि, दाम, ससि, गय, णिहि एषां पदानां प्रथमाक्षर: यथाक्रमं - धम्मदासगणि-ग्रन्थकर्तुः नाम ।

Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564