Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 519
________________ ४७६ [कर्णिकासमन्विता उपदेशमाला । गाथा-५३२-५३६ ] धर्मार्थकाममोक्षेषु चतुर्वर्गाभिधेयेषु मिश्रेषूपदिश्यमानेषु यस्य प्राणिनो भावश्चित्ताभिप्रायो यस्मिन् यस्मिन् रमते वीप्सा सर्वरसात्मकत्वमाह, तस्य वैराग्यैकान्तरसं विरक्त्येकनिर्यासं नेदं प्रकरणं सर्वं सकलमपि सुखयति आह्लादयति, किन्तु वैमुख्यमेवाऽऽतनोतीति ॥५३२॥ किञ्च संजमतवालसाणं, वेरग्गकहा न होइ कण्णसुहा । संविग्गपक्खियाणं, होज्ज व केसिंचि नाणीणं ॥५३३॥ संयमतपोऽलसानां संयमे तपसि चानुद्यमानां गुरुकर्मणां वैराग्यकथा प्रस्तुतप्रकरणरूपा न भवति कर्णसुखा श्रुतिसुखेन मानसानन्दहेतुर्न स्यादित्यर्थः । संविग्नपाक्षिकाणां प्रतिपादितचराणां स्वयं संयमतपोऽलसानामपि भवेद्वा वैराग्यकथा इयं कर्णसुखा केषाञ्चित् ज्ञानिनां संयमानुरागनिर्मलज्ञानानामिति यावदिति ॥५३३॥ 10 तथा मोहमहोरगग्रस्तानां जन्तूनां साध्यासाध्यविवेचकत्वेन संग्रहपरिच्छेदवेदनसामर्थ्यमप्यस्य प्रकरणस्येति व्याचष्टे सोऊण पगरणमिणं, धम्मे जाओ न उज्जमो जस्स । न य जणियं वेरग्गं, जाणिज्ज अणंतसंसारी ॥५३४॥ श्रुत्वा प्रकरणमिदमुपदेशमालाख्यं धर्मे जिनोक्ते जातो नोद्यमो विशेषाभियोगो यस्य जन्तोन च 15 जनितम् उत्पादितं श्रूयमाणेनाऽनेन वैराग्यं विषयवैमुख्यं यस्येति वर्त्तते, तं जानीयास्त्वं यदुताऽयमनन्तसंसारीति कालदष्टवदसाध्य एवेत्यर्थः ॥५३४॥ यत आह कम्माण सुबहुयाणुवसमेण उवगच्छई इमं सम्मं । कम्ममलचिक्कणाणं, वच्चइ पासेण भण्णंतं ॥५३५॥ कर्मणां मिथ्यात्वादीनां सुबहूनां प्रभूतानामुपशमेन उपलक्षणत्वेन उदीर्णानां क्षयेण, उदयावलिकाम20 प्राप्तानाम् उपशमेन, स्वकार्यकरणाशक्तिलक्षणेन सता अल्पशेषकर्मणामेव प्राणिनामुपगच्छति सद्बोधं जनयति इदं प्रस्तुतप्रकरणं सम्यग् अविपरीतस्थित्या । व्यतिरेकमाह-कर्ममलचिक्कणानां मिथ्यात्वादिपङ्कदिग्धानां जीवानां व्रजति पार्वेण भण्यमानं नान्तः प्रविशति उपरि प्लवते इत्यर्थः ॥५३५।। अथास्य प्रकरणस्याध्ययनफलमाह उवएसमालमेयं, जो पढइ सुणइ कुणइ वा हियए । सो जाणइ अप्पहियं, नाऊण सुहं समायरइ ॥५३६॥ . उपदेशमालामेतां यो धन्यः पठति सूत्रतः शृणोत्यर्थतः करोति वा हृदये प्रतिक्षणं सूत्रार्थोभयभावनया स जानात्यात्महितम् इहलोकपरलोकयोः स्वपथ्यम् , तच्च ज्ञात्वा सुखमकृच्छ्रेणैव समाचरति अनुतिष्ठतीति ॥५३६॥ 25 १. नुद्यतानां - A, H। २. सव्वं - C, D, K, KH, LI टि. 1. 'भूतपूर्वे प्चरट्' इत्यनेन चरप्रत्ययः ।

Loading...

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564