Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 518
________________ ४७५ [कर्णिकासमन्विता उपदेशमाला । गाथा-५२८-५३२] भावार्थ:-बहुकालमपथ्यसेवकोऽपि आमयावी सुवैद्यसम्पर्कादिना विदितपथ्यासेवनगुण आरोग्याकाङ्क्षया स्वस्यापथ्यं जिहासुः, पथ्यानुरागी क्रमेणैवाऽपथ्यं मुञ्चेत् । तच्चोक्तमायुर्वेदे "उचितादहिताद्धीमान्, क्रमशो विरमेन्नरः । हितं क्रमेणोपचरेत्, क्रमश्चाऽत्रोपदिक्ष्यते" ॥[ ] इत्यादि । यथा चैतदेवं तथा यः पार्श्वस्थादिभावोपजीव्यपि चिरकालात्कथञ्चित् सुसाधुसम्पर्कादिनाऽऽविर्भूततीव्रधर्मश्रद्धानोऽपि 'न य ओसन्नविहारी दुहिओ ओसन्नयं चयइ' इत्यादिपूर्वोक्तयुक्त्या दुस्त्यजमपि पार्श्व- 5 स्थादिभावं क्रमशो निवर्तयन्, संयमे गाढप्रतिबद्धभावः सम्पूर्णवीर्यलाभादरात् संविग्नपाक्षिकः स्यात् । तदर्थं तन्मार्गोऽपि मोक्षहेतुतया साधुः प्रतिपादित इति ॥५२८॥ तदेवमनेकधा सदुपदेशान् प्रतिपाद्य तेषां विपक्षविक्षेपेण सुपात्रन्यासयोग्यतामाह किं मूसगाण अत्थेण ? किं वा कागाण कणगमालाए ?। मोहमलखवलियाणं, किं कज्जुवएसमालाए ॥५२९॥ किं मूषकानामाखूनामर्थेन सुवर्णदीनारादिना ? न किञ्चित्, निष्प्रयोजनो हि तेषां तद्ग्रहणादरः । किं । वा काकानां करटानां कनकमयी माला माणिक्यादिश्रेणिः कनकमाला तया ? न किञ्चिदेव । मोहमलकवलितानां मिथ्यात्वादिकर्मपङ्कलिप्तानां जन्तूनां किं कार्य प्रयोजनम् उपदेशमालया ? न किञ्चिदुपकाराभावादिति ॥५२९॥ चरणकरणालसाणं, अविणयबहुलाण सययमजोगमिणं । न मणी सयसाहस्सो, आबज्झइ कुत्थुभासस्स ॥५३०॥ जन्तूनां चरणकरणालसानां सदनुष्ठानप्रमद्वराणाम् अविनयबहुलानां दुविनीतानां प्राणिनाम् । धर्ममूलताख्यापनार्थं विनयस्य पृथग् विशेषणम् । सततं सदा अयोग्यम् अहितम् इदम् उपदेशमालाख्यं प्रकरणम् । तथा हि - न मणिः शतस्राहस्रो लक्षमूल्य आबध्यते विभूषणार्थमामुच्यते केनचित् । कौस्तुभासस्य कौस्तुभम् अस्यति क्षिपति यस्तस्य मूर्खस्य । अयमभिप्राय:-यः किल अपरिच्छेद्यमूल्यं पुरुषोत्तमवक्षःस्थलालङ्करणभूतं 20 कौस्तुभमिवातिमहायँ धर्ममूलभूतं विनयं निरस्यति, स वराकः कथमस्य प्रकरणस्य लक्षमूल्यमणिप्रायस्य योग्यः स्यादिति ॥५३०॥ किं कृतोऽयं प्रमादिनामनात्मनीनतावलेपो यदेवं सदुपदेशेऽप्यालस्यमित्याह नाऊण करयलगयाऽऽमलं व सब्भावओ पहं सव्वं । धम्मम्मि नाम सीइज्जइ त्ति कम्माइं गरुयाइं ॥५३१॥ ज्ञात्वा करतलगताऽऽमलकवत् परिस्फुटं सद्भावत उपादेयबुद्ध्या पथं ज्ञानाद्यात्मकं मोक्षमार्गं सर्वं 25 सम्पूर्णं तथाऽपि धर्मे नामेति विस्मये सीद्यते प्रमादिभिर्भूयते । इति इत्थं प्रकारेण कर्माणि गुरुकाणि तथाविधानां कर्मणामिदं दौरात्म्यमित्याकूतम् ॥५३१॥ अन्यच्च धम्मत्थकाममुक्खेहि जस्स भावो जहिं जहिं रमइ । वेरग्गेगंतरसं, न इमं सव्वं सुहावेइ ॥५३२॥ 15 १. लालंकारभूतं - KH, लालंकरणं - K, DI २. समुपदेशे...AI

Loading...

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564