________________
४७५
[कर्णिकासमन्विता उपदेशमाला । गाथा-५२८-५३२] भावार्थ:-बहुकालमपथ्यसेवकोऽपि आमयावी सुवैद्यसम्पर्कादिना विदितपथ्यासेवनगुण आरोग्याकाङ्क्षया स्वस्यापथ्यं जिहासुः, पथ्यानुरागी क्रमेणैवाऽपथ्यं मुञ्चेत् । तच्चोक्तमायुर्वेदे
"उचितादहिताद्धीमान्, क्रमशो विरमेन्नरः । हितं क्रमेणोपचरेत्, क्रमश्चाऽत्रोपदिक्ष्यते" ॥[ ] इत्यादि ।
यथा चैतदेवं तथा यः पार्श्वस्थादिभावोपजीव्यपि चिरकालात्कथञ्चित् सुसाधुसम्पर्कादिनाऽऽविर्भूततीव्रधर्मश्रद्धानोऽपि 'न य ओसन्नविहारी दुहिओ ओसन्नयं चयइ' इत्यादिपूर्वोक्तयुक्त्या दुस्त्यजमपि पार्श्व- 5 स्थादिभावं क्रमशो निवर्तयन्, संयमे गाढप्रतिबद्धभावः सम्पूर्णवीर्यलाभादरात् संविग्नपाक्षिकः स्यात् । तदर्थं तन्मार्गोऽपि मोक्षहेतुतया साधुः प्रतिपादित इति ॥५२८॥ तदेवमनेकधा सदुपदेशान् प्रतिपाद्य तेषां विपक्षविक्षेपेण सुपात्रन्यासयोग्यतामाह
किं मूसगाण अत्थेण ? किं वा कागाण कणगमालाए ?।
मोहमलखवलियाणं, किं कज्जुवएसमालाए ॥५२९॥ किं मूषकानामाखूनामर्थेन सुवर्णदीनारादिना ? न किञ्चित्, निष्प्रयोजनो हि तेषां तद्ग्रहणादरः । किं । वा काकानां करटानां कनकमयी माला माणिक्यादिश्रेणिः कनकमाला तया ? न किञ्चिदेव । मोहमलकवलितानां मिथ्यात्वादिकर्मपङ्कलिप्तानां जन्तूनां किं कार्य प्रयोजनम् उपदेशमालया ? न किञ्चिदुपकाराभावादिति ॥५२९॥
चरणकरणालसाणं, अविणयबहुलाण सययमजोगमिणं ।
न मणी सयसाहस्सो, आबज्झइ कुत्थुभासस्स ॥५३०॥ जन्तूनां चरणकरणालसानां सदनुष्ठानप्रमद्वराणाम् अविनयबहुलानां दुविनीतानां प्राणिनाम् । धर्ममूलताख्यापनार्थं विनयस्य पृथग् विशेषणम् । सततं सदा अयोग्यम् अहितम् इदम् उपदेशमालाख्यं प्रकरणम् । तथा हि - न मणिः शतस्राहस्रो लक्षमूल्य आबध्यते विभूषणार्थमामुच्यते केनचित् । कौस्तुभासस्य कौस्तुभम् अस्यति क्षिपति यस्तस्य मूर्खस्य । अयमभिप्राय:-यः किल अपरिच्छेद्यमूल्यं पुरुषोत्तमवक्षःस्थलालङ्करणभूतं 20 कौस्तुभमिवातिमहायँ धर्ममूलभूतं विनयं निरस्यति, स वराकः कथमस्य प्रकरणस्य लक्षमूल्यमणिप्रायस्य योग्यः स्यादिति ॥५३०॥ किं कृतोऽयं प्रमादिनामनात्मनीनतावलेपो यदेवं सदुपदेशेऽप्यालस्यमित्याह
नाऊण करयलगयाऽऽमलं व सब्भावओ पहं सव्वं ।
धम्मम्मि नाम सीइज्जइ त्ति कम्माइं गरुयाइं ॥५३१॥ ज्ञात्वा करतलगताऽऽमलकवत् परिस्फुटं सद्भावत उपादेयबुद्ध्या पथं ज्ञानाद्यात्मकं मोक्षमार्गं सर्वं 25 सम्पूर्णं तथाऽपि धर्मे नामेति विस्मये सीद्यते प्रमादिभिर्भूयते । इति इत्थं प्रकारेण कर्माणि गुरुकाणि तथाविधानां कर्मणामिदं दौरात्म्यमित्याकूतम् ॥५३१॥ अन्यच्च
धम्मत्थकाममुक्खेहि जस्स भावो जहिं जहिं रमइ । वेरग्गेगंतरसं, न इमं सव्वं सुहावेइ ॥५३२॥
15
१. लालंकारभूतं - KH, लालंकरणं - K, DI २. समुपदेशे...AI