________________
10
४७४
[कर्णिकासमन्विता उपदेशमाला । गाथा-५२५-५२८] यदाहुः कलिकालसर्वज्ञसंवादा: श्रीहरिभद्रसूरिपादाः
'सुअबज्झायरणरया पमाणयंता तहाविहं लोअं। भुवणगुरुणो वराया पमाणयं नावगच्छंति ॥१॥ [प.व./१७०८ ] सुत्तेण चोइओ जो, अन्नं उद्दिसिय तं न पडिवज्जे ।
सो तंतवायवज्झो न होइ धम्ममि अहिगारी" ॥२॥ [प.व./१७०९] इत्यादि ॥५२५।। तस्माल्लोकाचरणनिरपेक्षस्यागमपरतन्त्रतैव मोक्षाङ्गम् । तत्र च यथाशक्ति यदपि यतनयानुष्ठीयते, तावदपि निर्जराकारीत्यभ्युच्चयेनाह
हीणस्स वि सुद्धपरूवगस्स संविग्गपक्खवाइस्स ।
जा जा हवेज्ज जयणा, सा सा से निज्जरा होइ ॥५२६॥ ___ आस्तां तावदकलङ्कस्य, हीनस्याऽपि उत्तरगुणानपेक्ष्य न्यूनस्याऽपि शुद्धप्ररूपकस्य यथावस्थिताहदागमार्थप्रकाशकस्य संविग्नपक्षपातिनो या या भवेद्यतना परिणतदेशीयपरिमितोदकाऽद्याऽऽदानरूपा । सा सा से तस्य संविग्नपक्षपातिनो निर्जरा कर्मक्षयहेतुर्भवति । तस्य कायतोऽन्यतः प्रवृत्तस्यापि चित्तमवेक्ष्य गाढानुरक्तत्वात् । तथा चोक्तम्
"संविग्गपक्खिओ उण अन्नत्थ पइट्ठिओ वि काएण । 15
___ धम्मे च्चिय तल्लिच्छो दढरतित्थि व्व पुरिसम्मि" ॥१॥ [प.व./१६८१] ॥५२६।।
यस्तु गीतार्थो बहुगुणाऽल्पदोषपरिकलनया भगवदागमार्थोपदेशात् किञ्चिदासेवते स महतो निर्जरालाभस्य भाजनं स्यादित्याह
सुंकाईपरिसुद्धे सइ लाभे कुणइ वाणिओ चिटुं।
एमेव य गीयत्थो, आयं दटुं समायरइ ॥५२७॥ शुल्कं-राजदेयो भागधेयस्तदादिर्येषां कर्मकरव्ययादीनाम् । शुल्कादिभिः परिशुद्धे आत्मन एव स्वाधीने सति लाभे करोति वाणिज्यको वाणिज्यरूपां चेष्टां व्यवहृतिम् । एवमेव च अनेनैव न्यायेन च, गीतार्थो गृहीतागमसारः पुमान् आयं ज्ञानादिलाभमधिकं दृष्ट्वा सूत्रार्थदृशा निरीक्ष्य समाचरति । यतनया तदासेवते इति ॥५२७॥
अस्त्वेवमायव्ययतुलनया यतमानस्य निर्जरा, यस्तु निष्कारणं सुखित्वेनैव शिथिलः, स संविग्न25 पाक्षिकः किमर्थं समर्थ्यते इत्याह
आमुक्कजोगिणो च्चिय, हवइ हु थोवा वि तस्स जीवदया ।
संविग्गपक्खजयणा, तो दिट्ठा साहुवग्गस्स ॥५२८॥ आ समन्तान्मुक्ता योगाः संयमव्यापारा यस्य सन्ति 'सर्वादेरिति', स आमुक्तयोगी, तस्याऽऽमुक्तयोगिन एव सतो भवति । हुनिश्चयेन, स्तोकापि तस्य संविग्नपाक्षिकस्य जीवदया । संविग्नपक्षयतना 30 मोक्षाभिलाषुकयतिजनानुरागेण पूर्वोक्ता प्रवृत्तिस्ततः कारणात् दृष्टा भगवद्भिरुपलब्धा साधुवर्गस्येति । अयमत्र
१. त्युच्चयेना - A. B, H त्यभ्यभूयेना - C, LI