________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-५२३-५२५]
४७३ कान्तारं महारण्यम्, रोधः परचक्रादिजनितो नगरादौ, अध्वा पन्थाः, अवमं दुर्भिक्षम्, ग्लानत्वंज्वरादिजनितं मान्द्यं कृतद्वन्द्वानि तानि आदिर्येषां राजोपसर्पणादीनां तानि च तानि कार्याणि च तेषु । सर्वादरेण सम्पूर्णयत्नेन यतनया आगमोक्तया यथा तेषां चित्तोपरोधो न भवति तं तथा करोति यत् साधु शोभनं करणीयं कृत्यं साधुकार्यं वा तपस्विप्रयोजनं वेति ॥५२३॥ एवमतिदुष्करमिदं कुर्वाणश्चायमतिश्रेयानेवेत्याह
आयरतरसम्माणं सुदुक्कर माणसंकडे लोए ।
संविग्गपक्खियत्तं, ओसन्नेणं फुडं काउं ॥५२४॥ आदरतरेण सातिशयप्रयत्नेन सतां साधूनां मानः पूजा यस्मिन् तत् आदरतरसन्मानं संविग्नपाक्षिकत्वं सुदुष्करं दुरनुष्ठेयं मानसङ्कटे अहङ्कारव्याप्ते लोके । यदुक्तम्"सर्वस्यात्मा गुणवान्, सर्वः परदोषदर्शने कुशलः ।
____10 सर्वस्य चास्ति वाच्यं न चात्मदोषान् वदति कश्चित् ॥" [ ] किं तत् ? संविग्नपाक्षिकत्वम् अवसन्नेन स्वयं स्फुटं निर्व्याजं लोकप्रकाशं वा कर्तुं विधातुं सुदुष्करमिति सण्टङ्कः ॥५२४॥
अथ सुसाधुविहारेण चिरकालं विहृत्य पश्चात्कर्मपारवश्येण ये शैथिल्याद् गच्छं त्यजन्ति, ते कुत्र पक्षे ज्ञातव्या इत्याह
सारणचइया जे गच्छनिग्गया पविहरंति पासत्था ।
जिणवयणबाहिरा वि य, ते उ पमाणं न कायव्वा ॥५२५॥ स्मारणत्याजिता उपलक्षणत्वात् स्मारण-वारण-नोदन-प्रतिनोदनादिभिः प्रागुक्तस्वरूपाभिरनुशासिताः सन्तोऽतिप्रमादितया त्याजितास्त्रासिता अत एव ये गच्छात् साधुगणान्निर्गता बहिर्भूताः प्रविहरन्ति । यथेष्टचेष्टं हिण्डन्ते । अत एव जिनवचनबाह्या भगवत्प्रवचनार्थपार्श्ववर्तिनः पार्श्वस्था इत्यर्थः । ते तु प्रमाणं न 20 कर्त्तव्यास्ते पुनः सुसाधुतया नैव द्रष्टव्या इति । इदमत्र हृदयं-संविग्नादीनां हि न काचिज्जातिरस्ति सम्पूर्णसर्वविरतिधर्मा हि संविग्नाः, देशविरतिविशुद्धः सुश्रावकः, सुसाधुपक्षपाती च पार्श्वस्थादिरपि संविग्नपाक्षिकः । अनेन स्वस्वलक्षणेन हि ते तथा तथा व्यपदिश्यन्ते । तत् तल्लक्षणरहितानां तेषां केवलं पार्श्वस्थत्वमेवाऽवशिष्यते । प्रागवस्थानुष्ठानं तु तेषां नापेक्षणीयमिति भावः । अथवा अन्यथा प्रस्तूयते-तथाभूतान् तानेव प्रमाणीकृत्याऽपरे प्रमाद्यन्तो गीतार्थैरनुशासिता य एवं ब्रूयुः-किं कुर्मो वयम् ? अस्मत्तो महत्तरैरप्येवमेवा- 25 चरितम् इति तान् प्रति एवमुपदिश्यते । 'सारण...' गाहा, सैवार्थव्याख्या, विशेषार्थस्त्वयं-विदुषा मोक्षमार्ग प्रति प्रवर्त्तमानेन ये जिनवचनबाह्याः पार्श्वस्थास्ते प्रमाणं क्वचिदपि न कार्याः । अव्युच्छिन्नजिनाम्नायशुद्धं सूत्रमेव प्रमाणीकार्यम्, अन्यथा अर्थापत्त्या तैर्वराकैस्त्रिभुवनपितामहो भगवानेवाऽप्रमाणीकृतः स्यात् ।
15
१. तस्मात् - AI