Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
४६९
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-५०५-५०९] भग्नमिति । सर्वं च रत्नत्रयमपि भग्नमेवेत्यर्थः । आज्ञां चातिक्रान्त उल्लचितवान् कस्यादेशात् करोति शेषम् ? तद्भङ्गेऽन्यस्यानुष्ठानस्य विडम्बनारूपत्वादिति भावः ॥५०५॥ किञ्च
संसारो य अणंतो, भट्ठचरित्तस्स लिंगजीविस्स ।
पंचमहव्वयतुंगो, पागारो भिल्लिओ जेण ॥५०६॥ संसारश्च अनन्तो भ्रष्टचारित्रस्य विलुप्तचरणस्य । अत एव लिङ्गेन व्यवसायेनैव जीवनशीलिनो 5 लिङ्गजीविनः आन्तरं चरणपरिणाममुपदर्श्य तल्लिङ्गकार्यमाह-पञ्चमहाव्रततुङ्गः पञ्चभिर्महाव्रतैः प्राणातिपातविरमणादिभिस्तुङ्गोऽनाकलनीयः प्राकारो जीवनगररक्षाक्षमः संवररूपो भिल्लिओ त्ति विलुप्तो येन अभाग्यभाजेति ॥५०६॥ अथास्य साहसिकत्वमपि लक्षयति
न करेमि त्ति भणित्ता, तं चेव निसेवए पुणो पावं ।
पच्चक्खमुसावाई, मायानियडीपसंगो य ॥५०७॥ न करोमीति भणित्वा तें चे( चै)व स्वयं निषिद्ध निषेवते समाचरति पुनः पापं यः स प्रत्यक्षमृषावादी साक्षादलीकवावदूकः पश्यतोहर इवाचिकित्स्यः । तस्य माया आन्तरं शाठ्यं निकृतिर्बाह्यं प्रसङ्गोऽपरापरदोषसन्निपातप्राप्तिरूपश्च भवतीति शेष इति गाथार्थः ॥५०७॥ स चेतरलोकादप्यधमतम इत्याह
लोए वि जो ससूगो, अलियं सहसा न भासए किंचि ।
अह दिक्खिओ वि अलियं, भासइ तो किं च दिक्खाए ॥५०८॥ लोकेऽपि यः सशूको मनागपि पापभीरुर्यत्तदोनित्यसम्बन्धात् सोऽपि अलीकं सहसा राभस्येन न भाषते किञ्चित् । स हि लोकस्य व्यवहतिमात्रेण साधुत्वभीरुतयाऽप्येवंविधः । अथ पुनर्दीक्षितोऽपि प्रव्रज्यासाधुरपि अलीकं भाषते ततः किमत्र दीक्षया ? न किञ्चिदिति ॥५०८॥ यस्तु तपसा साध्यते, सर्वं तपो हि दुरतिक्रममित्यादिश्रवणात् संयममनपेक्ष्य तप एवाद्रियते तं प्रत्याहमहव्वयअणुव्वयाई, छड्डेउं जो तवं चरइ अन्नं ।
20 सो अन्नाणी मूढो, नावाबुद्दो मुणेयव्वो ॥५०९॥ महाव्रताणुव्रतानि त्यक्त्वा यस्तपश्चरति । अन्यदनशनादि तीर्थान्तरीयं वा । सोऽज्ञानी मूढो महामोहोपहतत्वान्नौबोद्रो मन्तव्यः । स हि जलधौ नौस्थितस्याल्पकारणेन द्रोणीमूलकाष्ठसंयोजकं कीलिकादिकं गृह्णतः सदृशो मूर्खतया द्रष्टव्यः । संयमतरीनाशे तपःकीलिकया सहितस्याऽपि तस्य भवाब्धौ मज्जनात् । तस्मात् ज्ञानसंयमगभिते तपसि यत्नो विधेय इति ॥ यदुक्तम्
"नाणं पयासयं सोहओ तवो संजमो अ गुत्तिकरो।
तिण्हं पि समाओगे मुक्खो जिणसासणे भणिओ" ॥१॥[ध.स./११७५] ५०९॥ ___ ज्ञान-तपः-संयमवता च दुःषमायां सङ्क्लिष्टकाले भूरीन् तद्विकलानवेक्ष्य नोपदेशद्वारतोऽपि तद्दोषोद्घोषणया मत्सरो विधेयो माध्यस्थ्यमालम्बनीयमितरथा स्वार्थहानिरेव स्यादित्युपदिशति
15
25
१. जीवननगर - A| २. तथैव - K, D, B, KH, H| ३. प्यंधनतम - A, B प्यंधतम - HI

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564