Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 514
________________ ४७१ 10 [कर्णिकासमन्विता उपदेशमाला । गाथा-५१३-५१८] अत्राऽप्यपिशब्दः सम्बन्धनीयः, शुद्ध्यति संविग्नपक्षे सुसाधूनामनुष्ठाने रुचिः स्पृहा यस्य स संविग्नपक्षरुचिः । शुद्धिभेददर्शनार्थो मुहुः क्रियाप्रयोगः । साधूनां हि शुद्धिः साक्षात्, पारम्पर्येण परयोर्व्यवहारनयात्तावदित्थमुक्तम् । निश्चयनये तु कदाचिद्व्यत्ययोऽपीति ॥५१३॥ संविग्नपक्षरुचयस्तर्हि ते कथं लक्षणीया इत्याह संविग्गपक्खियाणं, लक्खणमेयं समासओ भणियं । ओसन्नचरणकरणा वि जेण कम्मं विसोहेति ॥५१४॥ संविग्नानां-मोक्षाभिलाषुकसाधूनां पक्षे-वर्गे सुन्दरा मतिर्येषां ते संविग्नपाक्षिकाः तेषां लक्षणं पक्षान्तरव्यावर्त्तको धर्मस्तदेतत्समासतः संक्षेपतो भणितं पूर्वाचार्यैः - अवसन्नचरणकरणा अपि कर्मपारवश्यात् प्रमादिनोऽपि स्वयं येन लक्षणेन सेता कर्म ज्ञानावरणादि विशोधयन्ति सम्यक् क्षालयन्तीति ॥५१४॥ बहुवचनोद्देश एकवचनेऽपि चरितार्थ इति न्यायं दर्शयंस्तल्लक्षणमेवाह सुद्धं सुसाहुधम्म, कहेइ निदइ य निययमायारं । सुतवस्सियाण पुरओ, होइ य सव्वोमरायणिओ ॥५१५॥ शुद्धं सुसाधुधर्मं कथयति निष्कलङ्कयथोक्तानुष्ठायकं यत्याचारं प्रतिपादयति । निन्दति च चशब्दात् नानुमोदते च निजकं स्वकीयमाचारं सुतपस्विनां पुरतः सुसाधूनामग्रतः कदाचिन्मध्यमापन्नो भवति च सर्वाऽवमरात्निकोऽद्यतनदीक्षितावसानेभ्यः सर्वेभ्योऽवमरालिको लघीयानिति ॥५१५॥ तथा 15 वंदइ न य वंदावइ, किइकम्मं कुणइ कारवइ नेय । __ अत्तट्ठा न वि दिक्खे, देइ सुसाहूण बोहेडं ॥५१६॥ वन्दते सुसाधून् न च स्वयं वन्दयति, तद्वन्दनकं न प्रतीच्छतीति भावः । कृतिकर्म विश्रामणाचं करोति तेषां कारयति नैव तान् । आत्मार्थमुपस्थितमपि शिष्यं नापि नैव दीक्षयति । किं तर्हि करोति? ददाति सुसाधुभ्यो बोधयित्वा धर्मदेशनयेति ॥५१६॥ अत्र हेतुमाह 20 ओसन्नो अत्तट्ठा, परमप्पाणं च हणइ दिक्खंतो । तं खिवइ दुग्गईए, अहिययरं बुड्डुइ सयं च ॥५१७॥ अवसन्न आत्मार्थं परं शिष्यमात्मानं च हन्ति भावजीवितापेक्षोऽत्र घातः दीक्षयन् प्रव्राजयन् ।। कथमित्याह तं शिष्यं क्षिपति दुर्गतौ, अधिकतरं बुडति निमज्जति स्वयं च संसारपारावार इति ॥५१७॥ न केवलं दीक्षयन् वितथं च प्ररूपयन् ब्रुडतीत्याह जह सरणमुवगयाणं, जीवाणं निकिंतई सिरे जो उ । एवं आयरिओ वि हु, उस्सुत्तं पन्नवेंतो उ ॥५१८॥ 25 १. प्रमायिनो - A। २. सना - A, H। ३. ष्ठायि - A, B ष्ठायकथ....KH | ४. निंदयति - D, B, K, H | ५. स्वयं निंदति च निजकं....B.D. K. HT६. वमरात्रिकेभ्यो लघीया....H.CI टि. 1. मध्यमापन्नो - सुसाधनां मध्ये प्राप्त इत्यर्थः ।

Loading...

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564