Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 515
________________ ४७२ [कर्णिकासमन्विता उपदेशमाला । गाथा-५१८-५२३] यथा शरणमुपगतानाम् अभयार्थमायातानां जीवानां निकृन्तति छिनत्ति शिरांसि शीर्षाणि यस्तु यथाऽसावात्मानं दुर्गतौ क्षिपति । एवमनेनैव न्यायेन आचार्योऽपि आस्तामन्यः शास्ताऽपि, हुर्निश्चयेन उत्सूत्रमपसिद्धान्तं प्रज्ञापयंस्तु तुशब्दादाचरंश्च, दुर्गतावात्मानं क्षिपतीति ॥५१८॥ निगमयन्नाह सावज्जजोगपरिवज्जणाए, सव्वोत्तमो जईधम्मो । बीओ सावगधम्मो, तइओ संविग्गपक्खपहो ॥५१९॥ __ तस्मात् स्थितमेतत्-सावद्ययोगपरिवर्जनया सपापचित्तादिव्यापारपरिहाररूपतया सर्वोत्तमो यतिधर्मः साध्वाचारो मोक्षमार्ग इति शेषः । द्वितीयः श्रावकधर्मः । तृतीयः संविग्नपक्षपथस्तावपि मोक्षमार्ग इति ॥५१९॥ शेषाणां तर्हि का वार्तेत्याह __ सेसा मिच्छदिट्ठी, गिहिलिंगकुलिंगदव्वलिंगेहि। जह तिन्नि उ मुक्खपहा, संसारपहा तहा तिण्णि ॥५२०॥ शेषा उक्तेभ्यः परे गृहलिङ्ग-कुलिङ्ग-द्रव्यलिङ्गैरुपलक्षिता ये वर्तन्ते तेषां किमित्याह-यथा त्रय एव सुसाधु-श्रावक-संविग्नपाक्षिकलक्षणा मोक्षपथाः शिवमार्गाः । संसारपथा भवमार्गा अपि तथा गृहस्थचरक-पार्श्वस्थादिरूपास्त्रय एवेति ॥५२०॥ इत्थं पूज्यलिङ्गधारिणामपि पार्श्वस्थादीनां गृहस्थचरकादिसाधारण्यं तु भवानुयायित्वादेवेत्याह संसारसागरमिणं, परिब्भमंतेहिं सव्वजीवहिं। गहियाणि य मुक्काणि य, अणंतसो दव्वलिंगाइं ॥५२१॥ संसारसागरं भवोदधिम् इमम् अनुभवसिद्धं परिभ्रमद्भिः पर्यटद्भिः सर्वजीवैरखिलप्राणिभिः गृहीतानि च मुक्तानि च अनन्तशः अनन्तवारा द्रव्यलिङ्गानि रजोहरणादिरूपाणि । अनादित्वात्कालस्य । सर्वभावैः संयोगधर्मकत्वात् प्राणिनामनन्तशस्तत्सम्बन्धो न विरुद्ध इति भावः । इदमत्राऽऽकूतं-सम्यग्ज्ञानादिविकलेन न 20 किञ्चिल्लिङमात्रेण त्राणमिति ॥५२१॥ द्रव्यलिङ्गत्याजनाय चायमागमज्ञैरनेकधा प्रज्ञाप्यमानोऽपि यो लिङ्गत्यागं नाद्रियते तं प्रत्याह अच्चणुरत्तो जो पुण, न मुयइ बहुसो वि पन्नविज्जंतो । संविग्गपक्खियत्तं, करेज्ज लब्भिहिसि तेण पहं ॥५२२॥ अत्यनुरक्तो गाढप्रतिबद्धो यः पुनर्द्रव्यलिङ्गं न मुञ्चति । बहुशोऽनेकवारा अपि प्रज्ञाप्यमानो गीतार्थैः 25 गुणदोषविवेचनया अनुशास्यमानः, तं प्रति आचार्यः स्वयमेवोपदिशति-तर्हि धर्मशील ! संविग्नपाक्षिकत्वं कुर्या विदध्यास्तद्वीजाधानात् त्वं लप्स्यसे प्राप्स्यसि तेन संविग्नपाक्षिकत्वेनाऽनुष्ठितेन पथं मोक्षमार्गमिति ॥५२२।। संविग्नेभ्यस्तेन किं कृत्यमित्याह कंताररोहमद्धाण-ओमगेलन्नमाइकज्जेसु। सव्वायरेण जयणाए, कुणइ जं साहु करणिज्जं ॥५२३॥ 15 १. मपिसि... A, B, L, D, K, मुपसि... . । २. चिंतादि - B, H, चित्ता - AI

Loading...

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564