Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
४६७
[कर्णिकासमन्विता उपदेशमाला । गाथा-४९५-५००]
निब्बीए दुब्भिक्खे, रन्ना दीवंतराउ अन्नाओ । आणेऊणं बीयं इह दिन्नं कासवजणस्स ॥४९५॥ केहिवि सव्वं खइयं, पइन्नमन्नेहिं सव्वमद्धं च ।
वुत्तोग्गयं च केई, खित्ते खोटेंति संतट्ठा ॥४९६॥ निर्बीजे दुर्भिक्षे सति यत्र वपनार्थमपि बीजं धान्यं नास्ति । तस्मिन् दुष्काले केनचित् राज्ञा 5 पृथ्वीपतिना द्वीपान्तरादन्यस्मात् कुतोऽप्यानीय बीजमिह प्रस्तुतदेशे, दत्तं कर्षकजनस्य भूरिधान्योत्पत्त्यर्थं वापनाय वितीर्णं कृषीबललोकस्येति, तच्च कैश्चित् सर्वं खादितं, प्रकीर्णमुप्तमन्यैरर्द्धमर्द्धं तु खादितमित्यर्थः । सर्वं चान्यैः प्रकीर्णं निष्पत्तिं च नीतमिति गम्यते । उप्तोद्गतं च प्रकीर्णप्ररूढं केचित् क्षेत्रे
खुटुंति कुट्टयन्ति राज्ञश्चौर्येण विमर्घ स्वगृहे नेतुकामा विविच्य पृथक् कुर्वन्ति । स्वान्तार्थाय स्वस्यात्मनोऽन्तो विनाशस्तदर्थाय । ते ह्येवमाज्ञाभङ्गेनाऽन्यायकारिणो राज्ञा अवश्यं विनाश्यन्ते इति ॥ ४९५।। ४९६।। 10 दृष्टान्तमुक्त्वा गाथात्रयेण दाान्तिकमाह
राया जिणवरचंदो, निब्बीयं धम्मविरहिओ कालो । खित्ताई कम्मभूमी, कासववग्गो य चत्तारि ॥४९७॥ अस्संजएहिं सव्वं खइयं अद्धं च देसविरएहिं । साहहिं धम्मबीयं, वुत्तं नीयं च निप्फत्तिं ॥४९८॥ जे ते सव्वं लहिलं, पच्छा खुटुंति दुब्बलधिइया ।
तवसंजमपरितंता, इह ते ओहरियसीलभरा ॥४९९॥ अत्र राजा जिनवरचन्द्रो भगवान् । निर्बीजं धर्मविरहितः कालो दुःषमैव । क्षेत्राणि कर्मभूमयः । कर्षकवर्गश्चत्वारो यथाक्रमम् असंयत-देशविरत-सुसाधु-पार्श्वस्थाख्या इति । तेषां जिनराजेन धर्मबीजं केवलालोकद्वीपादानीय शिवधान्यसिद्धये समपितम् । तच्च तत्रासंयतैर्धर्मबीजं विरत्याख्यं सर्वं खादितं तेषां 20 तद्रहितत्वात् । अर्द्धं च देशविरतैः खादितं तदर्द्धस्यैव तेषु दर्शनात् । साधुभिर्द्धर्मबीजं उप्तम् आत्मक्षेत्रे निहितं नीतं च निष्पत्तिं सम्यक्पालनेन इति । य एते सर्वं लब्ध्वा धर्मबीजं पश्चात् कुट्टयन्ति । स्वक्षेत्रे वर्तमानं विमर्दयन्ति । भगवदनादिष्टाश्चौरकर्षका इव दुर्बलधृतयोऽदृढमनःप्रणिधानाः तपःसंयमयोः परितान्ताः श्रान्ता इह प्रवचने ते अपभृतशीलभराः पार्श्वतस्त्यक्तव्रतवाताः पार्श्वस्था इति यावत् ॥४९७॥४९८॥४९९॥ इत्थं दान्तिकघटनां कृत्वा उपदेशसर्वस्वमाह
आणं सव्वजिणाणं, भंजइ दुविहं पहं अइक्कतो ।
आणं च अइक्कंतो, भमइ जरामरणदुग्गम्मि ॥५००॥ आज्ञां सर्वजिनानां भनक्ति आमर्दयति द्विविधं साधुश्रावकसम्बन्धिनं पन्थानं मार्गम् अतिक्रान्त उल्लङ्घ्य स्थितः । आज्ञां चातिक्रान्तो भ्रमति जरामरणदुर्गे पर्यटति अनन्तसंसारे इति ॥५००॥
25
१. द्धीया - D, K, KH, B | २. दुर्बलाधियो - B, KH, D, दुर्बलतयो - C, L| ३. प्रतिमाना: AI

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564