Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 508
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा- ४८६-४९० ] -"यदि यत्रैव तत्रैव यथैव च तथैव च । यथा-" य रतिं रे चित्त ! बध्नासि नाऽसि दुःखस्य भाजनम्" ॥१॥ [ ] इति ॥४८६॥ गुरुकर्मा तु विपरीतचारी स्यादित्याह जह जह सव्वुवलद्धं, जह जह सुचिरं तवोवणे वुच्छं । तह तह कम्मभरगुरू, संजमनिब्बाहिरो जाओ ॥४८७॥ ४६५ यथा यथा ज्ञानावरणादिक्षयोपशमादिना सर्वम् आगमरहस्यमुपलब्धम्, यथा यथा सुचिरं प्रभूतकालं तपोवने साधुमध्येऽध्युषितं तेन स्थितम् । तथा तथा कर्मभरगुरुर्मिथ्यात्वादिकर्मभाराक्रान्तः संयमनिर्बाह्य आगमोक्तविपरीतचारी जातः सम्पन्न इति ॥ ४८७॥ तदेतस्य उचितमित्याह विज्जप्पो जह जह, ओसहाइं पिज्जेइ वायहरणाइं । तह तह से अहिययरं, वाएणाऊरियं पोट्टं ॥ ४८८ ॥ वैद्येषु आयुर्वेदाचार्येषु आप्तोऽविप्रतारकः, स यथा यथा औषधानि व्योषादीनि पाययति अनात्मनीनमातुरमिति गम्यम् । वातहरणानि वायुशमनानि । तथा तथा से तस्य अधिकतरं प्रागवस्थायाः समलं वातेनापूरितं वायुनाक्रान्तं पोट्टं जठरमिति । एवं भगवति गुरौ भाववैद्ये कर्मवातहराणि सिद्धान्तौषधानि अनेकधा पाययत्यपि गुरुकर्मरोगिणां देहिनां चित्तोदरं गाढतरं सङ्क्लिष्टाध्यवसायवायुना पूर्यते इत्युपनयः ॥४८८॥ ये च जानन्तोऽपि जिनवचनं प्रमादिनस्ते न गुरुवैद्यचिकित्सायाः साध्याः स्युरित्यत्र दृष्टान्तमाह—– दड्डुजउमकज्जकरं, भिन्नं संखं न होइ पुण करणं । लोहं च तंबविद्धं, न एइ परिकम्मणं किंचि ॥४८९ ॥ को दाही उवएसं, चरणालसयाण दुव्वियड्डाण ? | इंदस्स देवलोगो, न कहिज्जइ जाणमाणस्स ॥४९० ॥ 5 दग्धजतु भस्मीभूतलाक्षाविकाररूपमकार्यकरं न प्रयोजनकारि भवति । भिन्नो दलितः शङ्खो जलजो न भवति । पुनःकरणः पुनः कर्तुं न शक्यते इत्यर्थः । अत्र प्राकृतत्वाल्लिङ्गस्य अप्राधान्यमिति । लोहमश्मसारं ताम्रविद्धं शुल्वमिश्रं नैति नायाति परिकर्म पुनः करणरूपं किञ्चित् । घण्टान्तानि हि लोहानीति ख्यातेरिति 20 ॥४८९॥ यथा चैतदेवं तथा प्रव्रजिता अपि प्रमादिन इत्याह १. वुत्थं - C, L, H | २. पाज्जह K, D पउंज्जेइ - C, L । ३. करणपुन: - C, L, K, D करणकर्तुं - KH । ४. शुभ्रमिश्रं - A, H | ५. घट्टत्तानि - C, LI 10 टि. 1. व्योषं - त्रिकटु - त्रीणि कटूनि शुण्ठीमरिचपिप्पल्याख्यानि समाहृतानि त्रिकटु तदेव व्योषं औषधिविशेषः । 2. घण्टा इव शब्दोऽस्य घण्टाशब्दं - कांस्यं तदेव लोहस्यान्तिमो विकारः, न ततः परिकर्म कर्त्तुं शक्यम्, इत्यर्थः । 15 को दास्यत्युपदेशं न कश्चित्, चरणालसकानां प्रमद्वराणां दुर्विदग्धानां विपर्यस्तशास्त्रपल्लवग्राहेण सालम्बनानाम् । तेषां दुरभिमाने दृष्टान्तमाह - इन्द्रस्य देवलोको न कथ्यते जानानस्येति तद्गुणज्ञत्वात् तस्य 25 पुरस्तदुपवर्णयितुरुपहास एव । एवं तेऽपि 'वयमेव किल जानीम' इति स्थिता उपदेष्टारमुपहसन्तीति परमार्थतस्तु ते बाला एव । प्रबलमोहनिद्राविद्राणचित्ततया न किञ्चिज्जानन्ति उत्पथप्रवृत्तेरज्ञानचिह्नत्वादिति ॥ ४९० ॥

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564