________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा- ४८६-४९० ]
-"यदि यत्रैव तत्रैव यथैव च तथैव च ।
यथा-" य
रतिं रे चित्त ! बध्नासि नाऽसि दुःखस्य भाजनम्" ॥१॥ [ ] इति ॥४८६॥ गुरुकर्मा तु विपरीतचारी स्यादित्याह
जह जह सव्वुवलद्धं, जह जह सुचिरं तवोवणे वुच्छं ।
तह तह कम्मभरगुरू, संजमनिब्बाहिरो जाओ ॥४८७॥
४६५
यथा यथा ज्ञानावरणादिक्षयोपशमादिना सर्वम् आगमरहस्यमुपलब्धम्, यथा यथा सुचिरं प्रभूतकालं तपोवने साधुमध्येऽध्युषितं तेन स्थितम् । तथा तथा कर्मभरगुरुर्मिथ्यात्वादिकर्मभाराक्रान्तः संयमनिर्बाह्य आगमोक्तविपरीतचारी जातः सम्पन्न इति ॥ ४८७॥ तदेतस्य उचितमित्याह
विज्जप्पो जह जह, ओसहाइं पिज्जेइ वायहरणाइं ।
तह तह से अहिययरं, वाएणाऊरियं पोट्टं ॥ ४८८ ॥
वैद्येषु आयुर्वेदाचार्येषु आप्तोऽविप्रतारकः, स यथा यथा औषधानि व्योषादीनि पाययति अनात्मनीनमातुरमिति गम्यम् । वातहरणानि वायुशमनानि । तथा तथा से तस्य अधिकतरं प्रागवस्थायाः समलं वातेनापूरितं वायुनाक्रान्तं पोट्टं जठरमिति । एवं भगवति गुरौ भाववैद्ये कर्मवातहराणि सिद्धान्तौषधानि अनेकधा पाययत्यपि गुरुकर्मरोगिणां देहिनां चित्तोदरं गाढतरं सङ्क्लिष्टाध्यवसायवायुना पूर्यते इत्युपनयः ॥४८८॥ ये च जानन्तोऽपि जिनवचनं प्रमादिनस्ते न गुरुवैद्यचिकित्सायाः साध्याः स्युरित्यत्र दृष्टान्तमाह—– दड्डुजउमकज्जकरं, भिन्नं संखं न होइ पुण करणं । लोहं च तंबविद्धं, न एइ परिकम्मणं किंचि ॥४८९ ॥
को दाही उवएसं, चरणालसयाण दुव्वियड्डाण ? | इंदस्स देवलोगो, न कहिज्जइ जाणमाणस्स ॥४९० ॥
5
दग्धजतु भस्मीभूतलाक्षाविकाररूपमकार्यकरं न प्रयोजनकारि भवति । भिन्नो दलितः शङ्खो जलजो न भवति । पुनःकरणः पुनः कर्तुं न शक्यते इत्यर्थः । अत्र प्राकृतत्वाल्लिङ्गस्य अप्राधान्यमिति । लोहमश्मसारं ताम्रविद्धं शुल्वमिश्रं नैति नायाति परिकर्म पुनः करणरूपं किञ्चित् । घण्टान्तानि हि लोहानीति ख्यातेरिति 20 ॥४८९॥ यथा चैतदेवं तथा प्रव्रजिता अपि प्रमादिन इत्याह
१. वुत्थं - C, L, H | २. पाज्जह K, D पउंज्जेइ - C, L । ३. करणपुन: - C, L, K, D करणकर्तुं - KH । ४. शुभ्रमिश्रं - A, H | ५. घट्टत्तानि - C, LI
10
टि. 1. व्योषं - त्रिकटु - त्रीणि कटूनि शुण्ठीमरिचपिप्पल्याख्यानि समाहृतानि त्रिकटु तदेव व्योषं औषधिविशेषः । 2. घण्टा इव शब्दोऽस्य घण्टाशब्दं - कांस्यं तदेव लोहस्यान्तिमो विकारः, न ततः परिकर्म कर्त्तुं शक्यम्, इत्यर्थः ।
15
को दास्यत्युपदेशं न कश्चित्, चरणालसकानां प्रमद्वराणां दुर्विदग्धानां विपर्यस्तशास्त्रपल्लवग्राहेण सालम्बनानाम् । तेषां दुरभिमाने दृष्टान्तमाह - इन्द्रस्य देवलोको न कथ्यते जानानस्येति तद्गुणज्ञत्वात् तस्य 25 पुरस्तदुपवर्णयितुरुपहास एव । एवं तेऽपि 'वयमेव किल जानीम' इति स्थिता उपदेष्टारमुपहसन्तीति परमार्थतस्तु ते बाला एव । प्रबलमोहनिद्राविद्राणचित्ततया न किञ्चिज्जानन्ति उत्पथप्रवृत्तेरज्ञानचिह्नत्वादिति ॥ ४९० ॥