________________
४६६
[कर्णिकासमन्विता उपदेशमाला । गाथा-४९०-४९४] उत्पथत्वमेवास्य प्रथयति
दो चेव जिणवरेहिं, जाइजरामरणविप्पमुक्केहि।
लोगम्मि पहा भणिया, सुस्समण-सुस्सावगो वा वि ॥४९१॥ द्वावेव जिनवरैर्जातिजरामरणविप्रमुक्तैर्लोके पन्थानौ भणितौ । यदुत-सुश्रमणः स्यादित्येकः 5 पन्थाः । सुश्रावको वा भवेदिति द्वितीयः । अपिशब्दसंसूचितः संविग्नपाक्षिकमार्गोऽपि तृतीय इति ज्ञेयम् । केवलमयं तयोरेवान्तर्भवति । सन्मार्गोपबृंहकत्वेन तस्याऽपि तदविरोधादिति ॥४९१॥ एतावेव मार्गों भावद्रव्यार्चनशब्दाभिधेयतया उपदिशति
भावच्चणमुग्गविहारिया य दव्वच्चणं तु जिणपूया ।
भावच्चणाउ भट्ठो, हविज्ज दव्वच्चणुज्जुत्तो ॥४९२॥ भावार्चनं भगवतां पारमार्थिकं पूजनम् उग्रविहारिता च चस्य अवधारणार्थत्वात् उद्यतविहारितैव । द्रव्यार्चनं तु तुशब्दो भावार्चनापेक्षया गौणत्वसाधकः । तत् किम् ? जिनपूजा माल्यादिभिर्भगवदर्चना । तत्र भावार्चनाद् भ्रष्टः सर्वसङ्गत्यागं कर्तुमशक्तो भवेद् द्रव्यार्चनोद्युक्तस्तत्परः पुण्यानुबन्धिपुण्यैकनिबन्धनतया तस्याऽपि भावार्चनामूलबीजभूतत्वादिति ॥४९२॥ एवं चेद् वस्तुतः किं तर्हि प्रस्तुतमित्याह
जो पुण निरचणो च्चिय, सरीरसुहकज्जमित्ततल्लिच्छो ।
तस्स न य बोहिलाभो, न सोगई नेव परलोगो ॥४९३॥ अर्चनविधिद्वैधेनाभिहितमार्गद्वैविध्यलिङ्गमन्वयेन यत्प्ररूपितं तद्व्यतिरेके-यः पुनर्निरर्चन एव उभयमार्गलिङ्गद्रव्यभावार्चनाद्वयशून्य एव, चरणकरणजिनपूजनोभयवैकल्यात् । शरीरसुखकार्यमेव तदन्यापोहेन
शरीरसुखकार्यमानं तस्मिन् लिप्सा लम्पटता यस्य स शरीरसुखकार्यमात्रतल्लिप्सः । अत्र सप्तमीतत्पुरुषेण 20 गतार्थस्याऽपि तच्छब्दस्य प्रयोगात् तत्र गाढं प्रतिबन्धं लक्षयति । तस्यैवंविधस्य न च नैव बोधिलाभः प्रेत्ये जिनधर्मावाप्तिः । न सुगतिर्मोक्षाख्या नैव परलोकः सुदेवत्वाद्याप्तिरूप इति ॥४९३॥ अत्र द्रव्यार्चनभावार्चनयोरेवान्तरमाह
कंचणमणिसोवाणं, थंभसहस्सोसियं सुवण्णतलं ।
जो कारिज जिणहरं, तओ वि तवसंजमो अहिओ ॥४९४॥ 25 काञ्चनं स्वर्णं, मणयस्चन्द्रकान्ताद्यास्तत्प्रधानानि सोपानानि यत्र तत् । तथा स्तम्भसहस्रोच्छ्रितं एतेन विस्तार उक्तः सुवर्णप्रधानं तलं यस्य तत् सुवर्णतलम् । एवंविधं यः कारयेज्जिनगृहम्, ततोऽपि आस्तामन्यदीग्विधभगवद्भवनविधानादपि तपःप्रधानः संयमः तपःसंयमोऽधिकः उत्कृष्टस्तत एव शिवावाप्तेरिति ॥४९४॥ तस्माद्भावार्चनमङ्गीकृत्य तत्र प्रमादो न विधेयः तथा हि महानपायः स्यादत्राऽर्थे लौकिकं दृष्टान्तं गाथाद्वयेनाह