Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 480
________________ 10 [कर्णिकासमन्विता उपदेशमाला । गाथा-४०२-४०७] ४३७ यथास्थितं क्षेत्रं न जानाति, अध्वनि जनपदे च यद्भणितं सिद्धान्ते कृत्यतया तच्च न जानाति । द्वारम् । कालमपि च न जानाति सुभिक्षे दुर्भिक्षे च यत्कल्प्यं योग्यं साधूनां तन्न जानातीति ॥४०२॥ भावे हट्ठगिलाणं न वि जाणइ गाढऽगाढकप्पं च । सहुअसहुपुरिसं तु, वत्थुमवत्थं च न वि जाणइ ॥४०३॥ भावे चिन्त्ये-हृष्टं निरामयं ग्लानम् आमयाविनं नापि जानाति । गाढं महत्प्रयोजनमगाढं सामान्यं, 5 तयोः कल्प्यं योग्यं च न जानातीति । सहं सहिष्णुं दृढसंहननम् असहम् असहिष्णुं सुकुमाराङ्गम् । पुरुषं तु शब्दात्परिकर्मितमपरिकर्मितं च । वस्तु आचार्यादिकं तदितरदवस्तु च । न विशेषेण विषयविभागेन जानातीति ॥४०३॥ पडिसेवणा चउद्धा, आउट्टिपमायदप्पकप्पे य । न वि जाणइ अग्गीओ, पच्छित्तं चेव जं तत्थ ॥४०४॥ प्रतिषेवना निषिद्धाचरणरूपा चतुर्दा आकुट्यां च प्रमादे च दर्णे च कल्पे च द्वन्द्वैकत्वात्तस्मिन् । तेषां च लक्षणम् "आउट्टिआ उवेच्चा दप्पो पुण होइ वग्गणाईओ। कंदप्पाइपमाओ कप्पो उण कारणे करणं" ॥ [य.स./११०] इतिरूपम् । चशब्दः स्वगताऽनेकभेदसंसूचकः । एतद्विषयां प्रतिसेवनां नापि जानाति अगीतोऽगीतार्थः । 15 प्रायश्चित्तमालोचनादिकं चैव चशब्दात्तत्सेवकभावोपक्रमणं च यत्तत्र तन्न जानाति, बहुशो न जानातीति वाक्यं महामोहान्धकारव्याप्तौ स्वबुद्धिकल्पनायाः सव्यभिचारत्वेन न किञ्चिदागमेन विना ज्ञायते इति ज्ञापनार्थम् । यदुक्तं"मतिभेदतमस्तिरोहिते गहने कृत्यविधौ विवेकिनाम् ।सुकृतः परिशुद्ध आगमः कुरुते दीप इवाऽर्थदर्शनम्" ॥[किराता०/ सर्ग-२] इति ॥४०४॥ अत्राऽर्थे गाथाद्वयेन दृष्टान्तमाह जह नाम कोइ पुरिसो, नयणविहूणो अदेसकुसलो य । कंताराडविभीमे, मग्गपणट्ठस्स सत्थस्स ॥४०५॥ यथा नाम कश्चित्पुरुषो नयनविहीनोऽन्धः, अदेशकुशलश्च अमार्गज्ञो भीमकान्ताराऽटव्यां भीषणविषमारण्ये, प्राकृतत्वाद्भीमशब्दस्य परनिपातः । मार्गप्रणष्टस्य मार्गाव्यामूढस्य सार्थस्य ॥४०५॥ किमित्याह इच्छड़ य देसयत्तं, किं सो उ समत्थो देसयत्तस्स ? । दुग्गाइ अयाणंतो, नयणविहूणो कहं देसे ? ॥४०६॥ इच्छति च देशकत्वं मार्गदर्शित्वम् । किं स तु समर्थो देशकत्वस्य ? करणाय नैवेत्यर्थः । तथाहिदुर्गादि विषमादि अजानन् नयनविहीनः कथं दर्शयेद् अत्यन्ताऽसम्भव एवेति भावः ॥४०६॥ दार्टान्तिकमपि गाथाद्वयेनाऽऽह एवमगीयत्थो वि हु, जिणवयणपईवचक्खुपरिहीणो । दव्वाइ अयाणंतो, उस्सग्गववाइयं चेव ॥४०७॥ 20 25 30

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564