Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 496
________________ ४५३ 10 [कर्णिकासमन्विता उपदेशमाला । गाथा-४५१-४५५] वराणि श्रेष्ठानि हितोपदेशेन लब्धानीति । शक्रोपाख्यानं श्रीसनत्कुमारचरिते पूर्वभवप्रस्तावे प्रतिपादितचरमेव, वर्तमानशक्राख्यानमपि तदनुसारसूचितं कार्तिकश्रेष्ठिचरित एव विज्ञातव्यम् ॥४५१॥ किञ्च - सुरवइसमं विभूई, जं पत्तो भरहचक्कवट्टी वि । माणुसलोगस्स पहू, तं जाण हिओवएसेण ॥४५२॥ सुरपतिसमां शक्रतुल्यां विभूतिं ऋद्धिं यत्प्राप्तो भरतचक्रवर्त्यपि श्रीऋषभजन्मा । मानुषलोकस्य प्रभुः तज्जानीहि हितोपदेशेन तस्यैव तत्प्रापणसामर्थ्यादिति ॥४५२॥ उपदेशसामर्थ्यमुक्त्वा कृत्यमाह लभ्रूण तं सुइसुहं, जिणवयणुवएसममयबिन्दुसमं । अप्पहियं कायव्वं, अहिएसु मणं न दायव्वं ॥४५३॥ लब्ध्वा प्राप्य तं श्रुतिसुखं कर्णसुखदं जिनवचनोपदेशम् , अमृतबिन्दुसमं स्तोकस्यापि तस्य भव्यचित्ताह्लादकत्वात् । आत्महितम् उपादेयतयोपदिष्टं कर्त्तव्यम् । अहितेषु हेयतयोपदिष्टेषु हिंसादिषु मनोऽन्तःकरणं न दातव्यं वाक्काययोस्तु वार्तापि दुरापास्तैवेति ॥४५३॥ हिताहितकारिणोरेव गुरुलाघवमाह हियमप्पणो करितो, कस्स न होइ गरुओ गुरु य गण्णो । अहियं समायरंतो, कस्स न विप्पच्चओ होइ ॥४५४॥ हितमात्मनः कुर्वन् कस्य न भवति, गुरुको महान् गुरुः प्रधानाचार्योऽत एव गण्यः सर्वार्थेषु प्रष्टव्यतया गणनीयः । व्यतिरेकमाह-अहितं समाचरन् कस्य न विप्रत्ययः अविश्वसनीयो भवतीति ॥४५४॥ हितानुष्ठायिनां रोचकमाह जो नियमसीलतवसंजमेहिं, जुत्तो करेड़ अप्पहियं । सो देवयं व पुज्जो, सीसे सिद्धत्थओ व्व जणे ॥४५५॥ य एव कश्चिन्नियम-शील-तपः-संयमैः पूर्वोक्तैर्युक्तः करोत्यात्महितमनुष्ठानं स देवतेव पूज्यः पूजनीयो भवति । तथा शीर्षे शिरसि कृतश्चोह्यत इति शेषः । क इवेत्याह सिद्धार्थक इव सर्षप इव मङ्गल्यप्रयोजनीभवतीति । अयमभिप्रायो-नेह पूज्यानामन्या ख्यातिरस्ति । गुणा एव हि पूज्यत्वनिबन्धनम् । तेष्वेव तदर्थिना यत्नो विधेयः । उक्तं च"गता ये पूज्यत्वं प्रकृतिपुरुषा एव खलु ते, जना ! दोषत्यागे जनयत समुत्साहमतुलम् । 25 न साधूनां क्षेत्रं न च भवति नैसर्गिकमिदम् ; गुणान् यो यो धत्ते स स भवति साधुर्भजत तान्" ॥१॥ [शि०३०] तथा "यत्नाधीने गुणाधाने यत्ने चात्मनि संस्थिते । अन्योऽपि गुणिनां धुर्य इति जीवन् सहेत कः" ॥१॥[] इति ॥४५५।। 15 200 १. तदनुसारिस्वचिंत्य - K, D। २. तत्प्रमाण....A | ३. गुरू गण्णो - A, H | ४. एवंविधैनि - KH एकस्मिन्नि - K, DI ५. पूज्यत्वे - KH । टि. 1. (भूतपूर्वे प्चरट्) हेम० शब्दा० सूत्रेण चर (प्चरट्) प्रत्ययो बोद्धव्यः ।

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564