Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
४५७
[ कर्णिकासमन्विता उपदेशमाला । गाथा-४५९-४६२] तिर्यङ्मनुष्यदेवेषु भ्रान्त्वा स कतिचिद्भवान् । भूत्वा महाविदेहेषु दूरान्निर्वृतिमेष्यति ॥५३॥ महामुनिसमाम्नातमतीत्य प्रतिभादृशाम् । आत्मनो पश्यतां मागं श्वभ्रपातो न दुर्लभः ॥५४॥ गुर्वाज्ञा निर्मलं ज्ञानं गुर्वाज्ञा शुचि दर्शनम् । गुर्वाज्ञा चारु चारित्रं गुर्वाज्ञा दुस्तपं तपः ॥५५॥ गुरूपदेशप्रतिकूलवृत्त्या जमालिमालिन्यमिहेत्यवेत्य ।। महोदयार्थाधिगमे प्रमाणं श्रयन्तु सन्तो मुनिमूलसङ्घम् ॥५६॥ [उपजातिवृत्तम्]
इति जमालिकथानकम् ॥ किञ्च
इंदियकसायगारवमएहिं, सययं किलिट्ठपरिणामो ।
कम्मघणमहाजालं, अणुसमयं बंधई जीवो ॥४६०॥ इन्द्रियकषायगौरवमदैः सततं क्लिष्टपरिणामः कलुषाध्यवसायः सन् कर्माण्येव ज्ञानावरणीयादीनि 10 जीवचन्द्रतिरोधायकत्वात् घना मेघास्तेषां महाजालं बृहद्वन्दम् अनुसमयं क्षणे क्षणे बध्नाति स्वप्रदेशः श्लेषयति जीवः केवलं; न पुनरिह कश्चित्परमार्थो अवसानविरसतया वैषयिकसुखस्य तत्त्वतो दुःखरूपत्वादिति ॥४६०॥ सुखभ्रान्त्या पुनस्ते अरतिविनोदम् एवं कुर्वन्तीत्याह
परपरिवायविसाला, अणेगकंदप्पविसयभोगेहिं ।
संसारत्था जीवा, अरविणोयं करितेवं ॥४६१॥ परपरिवादविशाला जनावर्णवादप्रगल्भा, अनेन द्वेषं लक्षयति । अनेककन्दर्पविषयभोगैर्बहुविधपरिहासशब्दाद्यनुभवैः करणभूतैरेतेन रागं सूचयति । संसारस्थाः सकर्मका जीवाः प्राणिनोऽरतिविनोदं परितापप्रेरणं कुर्वन्त्येवं मोहात्, अशक्यं च कर्तुमयम् । इन्द्रियाणां हि कौशलं विषयाभ्यासमनुविवर्द्धते रागश्च । यदुक्तम्
"उपभोगोपायपरो वाञ्छति यः शमयितुं विषयतृषाम् ।
धावत्याक्रमितुमसौ पुरोऽपराह्ने निजच्छायाम्" ॥१॥[ ] ४६१॥ कियद्वा एतन्मोहोपहतानाम् ? एते हि विपर्यस्तधियः अपुण्यमाचरन्तीत्याह
आरंभपायनिरया, लोइयरिसिणो तहा कुलिंगी य । दुहओ चुक्का नवरं, जीवंति दरिद्दजियलोयं ॥४६२॥
25 आरम्भः-स्नानादौ जन्तूपमर्दः । पाको -धान्यादीनां चरुकादिनिर्वृत्तः, तयोर्निरता आसक्तास्ते आरम्भपाकनिरता लौकिकऋषयो निश्छद्माध्यवसायास्तापसादयः । कुलिङ्गिनश्च शाठ्यवृत्तयो भौतादयः । ते उभयतो भ्रष्टा नवरं केवलं देवानांप्रियाः । ते हि न गृहस्थास्तद्विरुद्धवेषत्वान्नापि यतयो हिंसादिप्रवृत्तत्वात् । ततश्च जीवन्ति प्राणान् धारयन्ति । दरिद्रास्तत्कष्टस्यायासमात्रफलत्वात्तथाविधधर्मधनाऽभावतो नि:स्वा जीवलोके संसारे इति ॥४६२॥
15
20
30
टि. 1. चरुक: भाजनविशेषः तदादिनि निर्वृत्तः ।

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564