SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ 5 ३९२ [कर्णिकासमन्विता उपदेशमाला । गाथा-२४८-२४९] इन्द्रियेषु विकुर्वत्सु बलेन प्रबलेष्वथ । समुद्बबन्ध रोषेण नन्दिषेणस्तदुच्छिदे ॥५२॥ चारित्रवारिणी बन्धच्छेदं चक्रेऽस्य देवता । शस्त्राणि तस्य सा मृत्यूत्कण्ठितस्य व्यकुण्ठयत् ॥५३॥ मृत्यूपायानितिप्रायान् सा तस्य शतशोऽहरत् । तदयं गिरिमारुह्य झम्पासम्पातमातनोत् ॥५४॥ ततः पतन्तमन्तस्तं धृत्वाऽवोचत देवता । तदा नभस्थयोक्तं यन्मया स्मरसि तद्वचः ॥५५॥ किं मुधोत्तिष्ठसे मर्तुं कर्म भोगफलं यतः । अभुक्त्वा मूढ ! तद्भक्तुं शक्तास्तीर्थकृतोऽपि न ॥५६॥ तयेत्युक्तो धृतैकाकिविहारपरिकर्मणः । षष्ठात्पारणकं कर्तुं भिक्षायै निर्जगाम सः ॥५७॥ अनाभोगवशाद् वेश्यावेशदेशप्रवेशकृत् । स धर्मलाभ इत्युच्चैरुवाच वचनं मुनिः ॥५८॥ वेश्याप्याह सहासेयं धर्मलाभेन किं मम । शर्मलाभं धनेनाहमीहेय प्रत्यहं यतः ॥५९॥ मामियं हसतीत्येष तन्नीव्रतृणकम्पनात् । रत्नानीह तपोलब्धेरब्धेरिव विकीर्णवान् ॥६०॥ 10 शर्मलाभो धनेनायं तवाऽस्त्विति निगद्य सः । निर्जगाम मुनिर्वेश्याऽनुजगाम जगाद च ॥६१॥ किं ते तपोभिर्मृदुताजितपुष्कर ! दुष्करैः । भोगान् भुक्ष्व मया प्राणभतर्मर्तव्यमन्यथा ॥६२॥ तामालोक्य मुनिर्भोगकर्मरोगमहौषधीम् । अप्रियामप्यसौ मेने प्रियामिव करोतु किम् ॥६३॥ दश पुंसो दिने यत्र बोधयिष्यामि न स्वयम् । तत्राऽऽदास्ये पुनर्दीक्षां प्रतिज्ञायेति स स्थितः ॥६४॥ मुक्तर्षिलिङ्गः स तयाऽन्वहं भोगानभुङ्क्त च । दश प्रैषीच्च दीक्षायै प्रबोध्याऽनुजिनं जनान् ॥६५॥ 15 भोगकर्मण्यथ क्षीणे तस्य बोधयतो जनाः । नवाऽबुध्यन्त नाऽबुद्ध दशमो भृशमोहधीः ॥६६॥ काले रसवतीं कृत्वा संहूतो वेश्यया मुहुः । असम्पूर्णप्रतिज्ञत्वात् भोक्तुमभ्युत्थितो न सः ॥६७॥ दशमं टक्कजातीयं तस्मिन् बोधयति व्यधात् । प्रथमेऽन्ने हिमीभूते वेश्या रसवतीं नवाम् ॥६८॥ पुनर्भोक्तुं तयाऽऽहूतः सोऽब्रूत सुकृती कृती । दशमोऽहं महामोहं हित्वाऽस्म्यद्याऽऽतव्रतः ॥६९॥ अवधूय वधूमेनामध्वधूलिमिवानिलः । स पुनः स्वामिसामीप्यवर्ती भूत्वाऽऽदित व्रतम् ।।७०॥ 20 आलोचितप्रतिक्रान्ततादृग्दुश्चरितस्ततः । तपस्तप्त्वोज्ज्वलं प्राप नन्दिषेणः क्रमेण गाम् ॥७१॥ · इति नन्दिषेणकथानकम् ॥ अत्रार्थे कर्मशक्तिमेव समर्थयन्नाह कलुसीकओ य किट्टीकओ य, खउरीकओ मलिणिओ य । कम्मेहि एस जीवो, नाऊण वि मुज्झई जेण ॥२४९॥ 25 कलुषीकृतश्च वाताऽऽवर्तविवर्तितरजोगुण्ठितशरीरवत्, अनेन कर्मणः स्पृष्टावस्थां लक्षयति । किट्टीकृतश्च चिक्कसतां नीतः श्लक्ष्णतमरजःपरागपरामृष्टधर्माविलकलेवरवत्, अनेन बद्धावस्था सूचिता । खपुरीकृतश्चान्योन्याऽनुवेधेन लोलीभूतः पारदमिश्रसुवर्णचूर्णवत्, अनेन निधत्ताऽवस्थामाह । मलिनितः सर्वथा स्वरूपत्यागेन मलरूपतामानीतो, गुह्यनागविद्यया नागीभूतसुवर्णवत्, अनेन निकाचितावस्थामाह । कैरित्याह १. वेश्यावसतेप्रवेश - K, D वेश्यावेशादथप्रवेशकृत् - B, वेश्मावेशदेश....KH वेश्यावेश्यादश...HI टि. 1. धृतैकाकिविहारपरिकर्मणा येन सः । 2. गो(पुं०) स्वर्गः, तम् । 3. नागम् - सीसकम् ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy