Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तं. वै. प्र.
॥ ३ ॥
Jain Education
अट्ठ सहस्सा तिनि उसया मुहुत्ताण पनवीसा य । गन्भगओ वसइ जीओ नियमा हीणाहिया इन्तो ॥ ६ ॥ तिन्नेव य कोडीओ चउदस य हवंति सयसहस्साइं । दस चेव सहस्साइं दुन्नि सया पण्णवीसा य ॥ ७ ॥ उसासा निस्सासा इत्तियमित्ता हवंति संकलिया । जीवस्स गन्भवासे नियमा हीणाहिया इत्तो ॥ ८ ॥ “दुन्न” द्वे अहोरात्रशते ( २०० ) सम्पूर्णे सप्तसप्तत्यधिके ( ७७ ) अन्यदर्धमहोरात्रं च जीवो गर्भे वसति- तिष्ठति, एतावता नव मासान् सार्धसप्तदिनांश्च जीवो गर्भे तिष्ठतीत्यर्थः ॥ ४॥ "एए तु" एते-उक्तरूपा अहोरात्रा निश्चयेन जीवस्य | गर्भवासे भवन्ति 'इत्तो' त्ति अस्मादुक्तादहोरात्रप्रमाणात् उपघातवशेन वातपित्तादिदोषेण हीनाधिका अपि 'जायंति'त्ति धातूनामनेकार्थत्वात् भवन्तीत्यर्थः, तु शब्दोऽप्यर्थः स च योजित इति ॥ ५ ॥ अथ गर्भे मुहूर्त्तानां प्रमाणमाह - " अट्ठ सहस्सा" अष्टौ सहस्राणि त्रीणि शतानि पञ्चविंशत्यधिकानि मुहूर्त्तानि ( ८३२५ ) निश्चयेन जीवो गर्भे वसति, तानि च कथं भवन्ति, उक्तलक्षणाः सप्तसप्तत्यधिकद्विशताहोरात्राः (२७७) त्रिंशता गुणिताः ( ८३१० ) एतावन्तो भवन्ति, अर्द्धाहोरात्रस्य च पञ्चदश मुहूर्त्तानि क्षिप्यन्ते जातानि ( ८३२५ ) इति इतः उक्तरूपात् (८३२५) वातदोषादि| कारणेन हीनाधिकान्यपि मुहूर्त्तानि वसति गर्भे जीव इति ॥ ६ ॥ अथ गाथाद्वयेन गर्भे निःश्वासोच्छ्वासप्रमाणमाह“तिन्नेव०" "उस्सास" तिस्रः कोटयः चतुर्दश शतसहस्राणि चतुर्दश लक्षाणीत्यर्थः दश सहस्राणि द्वे शते पञ्चविंशत्यधिके इति ( ३१४१०२२५ ) ' इत्तियमित्ता' इति एतावन्मात्राः सङ्कलिताः - एकीकृताः जीवस्य गर्भवासे निश्चयेन निःश्वासोच्छ्वासा भवन्ति, कथं ?, एकस्मिन्नन्तर्मु (न्मु)हूर्त्ते सप्तत्रिंशच्छतानि त्रिसप्तत्यधिकानि ( १७७३ ) निःश्वासोच्छ्वासा
For Private & Personal Use Only
द्वार निर्दे
शः २-३
अहोरात्र
मुहूर्खों
च्छासमानं ४-८
॥ ३ ॥
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 160