Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
aashishaad श्री सूत्रकृताङ्गसूत्रम् asalaaka६ । तानुत्पन्नस्थिरैकस्वभावत्वे चात्मनो देवमनुष्यगत्यागती तथा विस्मृतेरभावात् जातिस्मरणादिकं च न प्राप्नोतीति ।।३४।। ।।१६।। साम्प्रतं बौद्धमतं पूर्वपक्षयितुमाहपंच खंधे वयंतेगे, बाला उ खणजोगिणो । अन्नो अणन्नो णेवाऽऽहु, हेउयं च अहेउयं ।।१७।।
एके-केचन बौद्धास्तु रूपवेदनाविज्ञानसंज्ञासंस्काराख्यान् तथाहि
१ पृथिवीधात्वादयो रूपादयश्चेति । २ सुखा दु:खा अदुःखसुखा चेति वेदनेति । ३ रूपविज्ञानं रसविज्ञानमित्यादि विज्ञानमिति । ४ संज्ञानिमित्तोद्ग्रहणात्मकः प्रत्यय इति । ५ पुण्यापुण्यादिधर्मसमुदाय इति । परमनिरुद्धःकाल: क्षणः, क्षणेन योगः-सम्बन्ध:क्षणयोगो येषां ते क्षणयोगिनस्तान् क्षणयोगिन:- क्षणिकान् पञ्चैव स्कन्धान् वदन्ति बालाः । न चैतेभ्यः अन्यः अनन्यो वा कश्चिदात्माख्यः पदार्थो हेतुक:-कायाकारपरिणतभूतनिष्पादित: अहेतुको वा-नित्यो विद्यते प्रत्यक्षादिप्रमाणाऽविषयत्वात् ते आहुरिति ।।१७।। तथाऽपरे बौद्धाश्चातुर्धातुकमिदं जगदाहुरित्येतद्दर्शयितुमाहपुढवी आउ तेउ य, तहा वाऊ य एकओ । चत्तारि धाउणो रूवं, एवमाहंसु जाणगा ||१८||
___ पृथिव्यापस्तेजश्च तथा वायुश्च चत्वारोऽपि धातव एकत:- एकाकारपरिणतिं बिभ्रति कायाकारतया तदा रूपं-जीवव्यपदेशमश्नुवते तथा चोचुः-“चतुर्धातुकमिदं शरीरं, न तद्व्यतिरिक्त आत्मास्तीति", एवमाहुश्चापरे बौद्धविशेषाः, क्वचिद् 'जाणगा' इतिपाठः, तत्रायमर्थो‘जानका' ज्ञानिनो वयं किलेत्यभिमानाग्निदग्धाः सन्त एवमाहुरिति संबन्धनीयमिति । अत्रोत्तरदानार्थं प्राक्तन्येव नियुक्तिगाथा को वेएई त्यादिगाथा व्याख्यायते
यदि पञ्चस्कन्धव्यतिरिक्त: कश्चिदात्माख्यः पदार्थो न विद्यते ततस्तदभावात् सुखदुःखादिकं को वेदयते ? ज्ञानस्कन्ध इति चेत्, न, तस्यापि क्षणिकत्वात्, ज्ञानक्षणस्य चातिसूक्ष्मत्वात् सुखदुःखानुभवाभाव:, क्रियाफलवतोश्च क्षणयोरत्यन्तासंगते: कृतनाशाकृताभ्यागमापत्तिरितीत्यादिगाथा प्राग्वद्वयाख्येयेति । तदेवमात्माभावे सुख दु:खानुभवाभाव: स्याद, अस्ति च सुखदुःखानुभवः, अतोऽस्त्यात्मेति, अन्यथा पञ्चविषयानुभवोत्तरकालमिन्द्रियज्ञानानां स्वविषयादन्यत्राप्रवृत्ते: संकलनाप्रत्ययो न स्यात्, आलयविज्ञानाद्भविष्यतीति चेदात्मैव तर्हि संज्ञान्तरेणाभ्युपगत इति । तथा बौद्धागमोऽपि आत्मप्रतिपादकोऽस्ति, स चायम्-"इत एकनवते कल्पे, शक्त्या मे पुरुषो हतः । तेन कर्मविपाकेन, पादे विद्धोस्मि भिक्षवः ! ।।१ ।। इत्येवमादि ।
. एवञ्च सत्यात्मा परिणामी ज्ञानाधारो भवान्तरयायी भूतेभ्यः कथञ्चिदन्य एव शरीरेण सहान्योन्यानुवेधादनन्योऽपि, तथा सहेतुकोऽपि नारकतिर्यङ्नरामरभवोपादानकर्मणा तथा विक्रि
Loading... Page Navigation 1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 162