Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
ऽध्यायः] वैष्णवेष्टिक्रियात:श्राद्धपर्यन्तविधिवर्णनम् । ११४१
तस्माद्भागवतश्रेष्ठमेकं वाऽपि सुपूजयेत् । हरिश्च देवताश्चैव पितरश्च महर्षयः ।।१४२ तस्मिन् सम्यूजिते विप्रे तुष्यन्त्येव न संशयः । अर्चनं मन्त्रपठनं ध्यानं होमश्च वन्दनम् ॥१४३ मन्त्रार्थचिन्तनं योगो वैष्णवानाञ्च पूजनम् । प्रसादतीर्थसेवा च नवेज्याकर्म उच्यते । पञ्चसंस्कारसम्पन्नो नवेज्याकमकारकः ॥१४४ आकारत्रयसम्पन्नो महाभागवतोत्तमः । श्राद्धानामन्यलाभे तु एकं नारायणं बलिम् ॥१४५ कुर्वीत परया भक्त्या वैकुण्ठपदमाप्नुयात् । नित्यञ्च प्रतिमासश्च पित्रोः श्राद्धं विधानतः ॥१४६ सोदकुम्भ प्रदद्यात्तु याव (दान्तिक) दिष्ट्यान्तिकं द्विजः । प्रत्यब्दं पार्वणश्राद्धं मातापित्रोमृतेऽहनि ।।१४७ अर्चयित्वाऽच्युतं भक्त्या पश्चात् कुर्याद्विधानतः । वैष्णवानेव विप्रांस्तु सर्वकर्मसु योजयेत् ।।१४८ सर्वत्रावैष्णवान् विप्रान् पतितानिव सन्यजेत् । शङ्खचक्रविहीनास्तु देवतान्तरपूजकाः । द्वादशीविमुखा विप्राः शैवाश्चावैष्णवाः स्मृताः ।।१४६, अवैष्णवानां संसर्गात् पूजनाद्वन्दनादपि । यजनाध्यापनात्सद्यो वैष्णवत्वाच्च्युतो भवेत् ।।१५० श्रुतिस्मृत्युदितं धर्म नातिक्रम्याऽऽचरेत्सदा । स्वशाखोक्तविधानेन वैकुण्ठाचनपूर्वकम् ॥१५१

Page Navigation
1 ... 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696