Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 671
________________ १२१० वृद्धहारीतस्मृतिः। - [अष्टमो ताभिरेव तु दद्यात्तु मुञ्जीत हि कथञ्चन । दत्त्वा पात्रान्तरे दद्यात्कांस्येवा मृण्मयेऽपि वा ॥६५ पुटे पणमये वाऽपि दद्यादत्र तु वैष्णवे । नुवं दारुमयं कांस्यं कुम्वीतायोमयं न तु ॥६६ न दद्यादारनालस्य घटं तस्मिन् महावने । आरनालस्य यत् कुम्भन्त्यजेन्मघाटं यथा ॥६७ आरनालङ्कारशाकं करञ्ज तिलपिष्टकम्।. . लशुनं मूलकं शिघ्रं छत्रां () कोशातकीफलम् । अलाबुञ्चान्त्रं शाकञ्च करनिर्मथितं दधि ॥६८ बिम्ब बिड्जच निर्यासं पीलुं श्लेष्मातकं फलम् । आरग्वधञ्च निर्गुण्डी कालिङ्गन्नालिका तथा ॥88 नालिकेर्याख्यशाकञ्च श्वेतवृन्ताकमेव च । उष्ट्राविमानुषीक्षीरमवत्सानिर्दशाहगोः॥१०० एतान्यकामतः स्पृष्ट्वा सवासा जलमाविशेत् । मत्या जम्ध्वा व्रतं कुर्यान्मर्ज जग्ध्वा पतेदधः ॥१०१ केशानां रञ्जनाथं वा न सृशेदारनालकम् । चन्दनं धनसारं वा मकरन्दमथापि वा ॥१०२ माषमुद्गादिचूर्ण वा तक्रं जाम्वीरमेव वा । तिम्तिडच कलायं वा केशरखनमाचरेत् ॥१०३ कचं मासात्त्यजेत्सर्व मुद्भाण्डं वैष्णवोत्तमः । न त्यजेल्लोहभाण्डानि तापयेच्च हुताशने ॥१०४

Loading...

Page Navigation
1 ... 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696