Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 670
________________ ऽध्यायः] सवृत्यधिकारभाण्डादीनां संशुद्धिवर्णनम् । १२०६ कृत्वा शौचं विधानेन दन्तधावनमाचरेत् । । कृत्वाऽथ मङ्गलस्नानं धृत्वा शुक्लाम्बरं तथा ॥८४ . आचम्य धारयेदूर्ध्वपुण्ड्रेशुभ्रं मृदेव तु।। चन्दनेनापि कस्तूर्य्याः कुकुमेनापि वाऽसति ॥८५ जप्त्वा मन्त्रं गुरु पश्चादभिनन्द्य च वैष्णवान् । नमस्कृत्वा जगन्नाथं जप्त्वा च शरणागतिम् ।।८६ आत्मानं समलम्कृत्य चिन्तयेन्मधुसूदनम् । . गृहभाण्डादिकं सर्व वाग्यता नियतेन्द्रियाः ।।८७ · संशोधयेत्प्रतिदिनं यज्ञार्थं परमात्मनः । मार्जयित्वा गृहं पश्चाद् गोमयेनानुलिप्य च ॥८८ .. रणवल्ल्यादिभिः पश्चादलङ्कृत्य समन्वतः । चतुर्विधानां भाण्डानां क्षालनन्तु समाचरेत् ॥८६ पाचकानि बहिष्ठानि जलस्याऽऽनयनानि च । स्थापनानि जलार्थ वा चतुर्विध मुदाहृतम् ॥६० पृथक् पृथगुदश्चानि तेषु तेष्वपि विन्यसेत् । ... नान्योन्यं सङ्करं कुर्याद्भाण्डानां सर्वकर्मसु ॥६१ तानि तानि स्पृशेत्पाणिं प्रक्षाल्यैव पुनः पुनः। सम्यक् प्रक्षाल्य भाण्डानि दाहयेद्यज्ञियैस्तृणैः ॥२ पुनः प्रक्षाल्य सन्तप्त्वा पश्चात्पचनमाचरेत् । ... रसभाण्डानि सर्वाणि क्षालयेदुष्णवारिणा ॥६३ चतुर्भिः पञ्चभिर्ध्यात्वा सुक्खुवौ क्षालयेत्तदा । वहिर्न निष्कामयीत पाचकानि गृहान्तिकात् ।।६४

Loading...

Page Navigation
1 ... 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696