Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 691
________________ १२३० वृद्धहारीतस्मृतिः । संपूज्यमाने विप्रेन्द्रेहरिस्तेषां प्रसीदति । अभावे वैष्णवे विप्रे संप्राप्ते हरि वासरे ।। ३१३ तद्वत्सम्पूजयेद् गावं तुलसी वाऽपि वैष्णवः । अग्निहोत्रन्तु जुहुयात्सायं प्रातर्द्विजोत्तमः ॥ ३१४ पञ्चयज्ञांश्च कुर्वीत वैष्णवान् विष्णुमर्धयेत् । तदर्पितं वै भुञ्जीत पिबेत्तत्पादवारि वै ।। ३१५ एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि । पूजयेद्वैष्णवं विप्रं द्वादश्यामपि वैष्णवः ॥ ३१६ विष्णोः प्रसाद तुलसी तीथं वाऽपि द्विजोत्तमः । उपवासदिने वाऽपि प्राशयेदविचारयन् ।। ३१७ उपवासदिने यस्तु तीर्थं वा तुलसीदलम् ॥३१८ न प्राशयेद्विमूढात्मा रौरवं नरकं व्रजेत् । हर्य्यर्पितन्तु यच्चान्नं तीर्थं वा पितृकर्मणि ॥ ३१६ दद्यात् पितॄणां यद्भक्ष्यं गया श्राद्धायुतं लभेत् । हरेर्निवेदितं भक्त्या यो दद्याच्छ्राद्धकर्मणि ॥ ३२० पितरस्तस्य यान्त्येव तद्विष्णोः परमं पदम् । तीथं वा तुलसीपत्र यो दद्यात्पितृदैवतम् ॥३२१ [ अष्टमो आकल्पकोटि पितरः परितृप्ता न संशयः । यः श्राद्धकाले मूढात्मा पितॄणाञ्च दिवोकसाम् ।।३२२ न ददाति हरेर्भुक्तं तस्य वै नारकी गतिः । हर्यर्पितन्तु यच्चान्नं यश्च पादोदकं हरेः || ३२३

Loading...

Page Navigation
1 ... 689 690 691 692 693 694 695 696