Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 690
________________ ऽध्यायः] सश्राद्धकथनपूर्वकविष्णोःस्थानप्राप्तिवर्णनम्। १२२६ वैष्णवानान्तु विप्राणां पश्चात्पादजलं पिबेत् । वृत्तौ न परिपूर्णोऽथ कर्मस्वधिकृतो भवेत् ॥३०२ मन्त्ररत्नार्थविच्छान्त नवेज्याकर्मसंयुतः। द्वादशी नियतो विप्रः स एव पुरुषोत्तमः ॥३०३ किमत्र बहुनोक्तेन सारं वक्ष्यामि ते नृप !। एकादश्युपवासश्च शङ्खचक्रादिधारणम् ॥३०४ तदीयानां पूजनश्च वैष्णवं त्रितयं स्मृतम् । पुण्याद्विष्णुदिनादन्यन्नोपोष्यं वैष्णवैः सदा ॥३०५ तथा भागवतादन्यो नार्चनीयो हि कुत्रचित् । भगवल्लमनुद्दिश्य न दद्या न यजेत् कचित् ॥३०६ नावैष्णवान्नं भुञ्जीत दद्यान्ना वैष्णवाय च । नार्चयेदितरान् देवान्न तिर्यग्धारयेत्तथा ॥३०७ एकादश्यान भुञ्जीत वसेबावैष्णवैः सह । अष्टाक्षरस्य जप्तारं शङ्खचक्रधरं द्विजः॥३०८ अवमत्य विमूढात्मा सद्यश्चण्डालतां ब्रजेत् । वैष्णवं ब्राह्मणं गाश्च तुलसी द्वादशी तथा ॥३०६ अनर्चयित्वा मूढात्मा निरयं दुर्गतिं व्रजेत् । विष्णोः प्रधानतनवो विप्रा गावश्च वैष्णवाः ॥३१० शक्त्या संपूज्य तानेव ग्राति विष्णोः परं पदम् । एकादश्युपवासश्च द्वादश्यां विप्रपूजन ॥३११ नित्यमामलकस्नानं पापिनामपि मुक्तिदम् । पक्षे पक्षे हरि दिने चक्राङ्कितभुजे नृप ! ॥३१२

Loading...

Page Navigation
1 ... 688 689 690 691 692 693 694 695 696