Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
१२२८
वृद्धहारीतस्मृतिः। [ सप्तमोचक्राङ्कितस्य विप्रस्य पादप्रक्षालितं जलम् । पुनाति सकलं लोकं यथा त्रिपथगानदी ॥२६१ तिस्रः कोट्यर्द्ध कोटी च तीर्थानि भुवनत्रये । चक्राङ्कितस्य विप्रस्य पादे तिष्ठन्त्यसंशयः ।।२१२ चक्राङ्कितस्य विप्रस्य पादप्रक्षालितं जलम् । पीत्वा पातकसाहस्रर्मुच्यन्ते नात्र संशयः ।।२६३ श्राद्ध दाने व्रते यज्ञे विवाहे चोपनायने। . चक्राङ्कितं विप्रमेव पूजयेदितरान्न तु ॥२६४ विष्णुचक्राङ्कितो विप्रो भुञ्जानोऽपि यतस्ततः । न लिप्यते स पापेन तमसैव प्रभाकरः ॥२६५ चक्राङ्कित भुजो विप्रः पङ्क्तिं मध्ये तु भुञ्जते । पुनाति सकलां पक्तिं गङ्गे वोत्तरवाहिनी ।।२६६ चक्राङ्कित भुजं विप्रं यो भूम्यामभिवादयेत् । ललाटे पांशु संख्यानि विष्णुलोके महीयते ॥२६७ ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा वैष्णवः पुमान् । अर्चयित्वेतरान् देवान् निरयं यान्त्यसंशयम् ।।२६८ विष्णोरावरणं हित्वा पूजयित्वेतरान् सुरान् । वैष्णवः पुरुषो याति कालसूत्रमधोमुखः ॥२६६ महापापी महापापैरन्वितो यदि वैष्णवः । मन्वादि धर्मशास्त्रोक्तं प्रायश्चित्तं समाचरेत् ॥३०० प्रायश्चित्तविशेषं तु पश्चात् कुर्वीत वैष्णवः । वैयासिकी वैष्णवीं च पवित्रीश्च समाचरेत् ॥३०१

Page Navigation
1 ... 687 688 689 690 691 692 693 694 695 696