Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
१२२६
वृद्धहारीतस्मृतिः ।
सा दुर्गतिं नयत्येव वैष्णवं वीतकल्मषम् । अर्चयित्वा जगन्नाथं वैष्णवः पुरुषोत्तमम् ॥२६६ तदावरणरूपेण यजेद्देवान् समन्ततः । अन्यथा नरकं याति यावदाभूत संवम् ॥२७० वासुदेवं जगन्नाथमर्चयित्वैव मानवः । प्राप्नोति महदैश्वयं ब्रह्मेन्द्रत्वादिकं क्षणात् ॥२७१ मनसाऽपि जलेनापि जगन्नाथं जनार्दनम् । सम्प्राप्नोत्यमलां सिद्धि जगत्सर्वं समश्चितम् ॥२७२ हृषीकेशं त्रयीनाथं लक्ष्मीशं सर्वदं हरिम् । सं विना पुण्डरीकाक्षं कोऽर्चयेदितरान् सुरान् ||२७३ नारायणं परित्यज्य योऽन्यं देवमुपासते । स्वपतिं नृपतिं हित्वा यथा स्त्री पुरुषाधमम् ॥ २७४ विष्णोर्निवेदितं हव्यं देवेभ्यो जुहुयात्तथा । पितृभ्यश्चैव तद्दद्यात्सर्वमानन्त्यमश्नुते ||२७५ निर्माल्यमितरेषां तु यदन्नाद्यं दिवौकसाम् । उपभुज्य नरो याति ब्रह्महत्यां न संशयः ॥ २७६ नैवेद्य भोजनं विष्णो स्तत्पादाम्बु निषेवणम् । तुलसी खादनं नृणां पापिनामपिमुक्तिदम् || २७७ एकादश्युपवासश्च शङ्खचक्रादिवारणम् । तुलस्या पूजनं विष्णो त्रितयं वैष्णवं स्मृतम् ॥२७८ अवैष्णवः स्याद्यो विप्रो बहुशास्त्रश्रुतोऽपि वा । सजीवन्नेव चण्डालो मृतः श्वानोऽभिजायते ॥२७६
[ अष्टमो

Page Navigation
1 ... 685 686 687 688 689 690 691 692 693 694 695 696