Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
ऽध्यायः] सवैष्णवधर्माभिधानतच्छात्रस्यफलश्रुतिवर्णनम् । १२३३
अश्वमेधसहस्रस्य फलं प्राप्नोत्यसंशयः । हारीतमेतच्छास्त्रन्तु परमां धर्मसंहिताम् ॥३४६ आलोक्य पूजयन् विष्णुं पारमैकान्त्यमश्नुते । एतच्छ त्वाम्बरोषस्तु हारीतोक्तिं नृपोत्तमः ॥३४६ ववन्दे परया भक्त्या तमृषि वैष्णवोत्तमः । त्वमेव परमोधर्मस्त्वमेव परमं तपः ॥३४७ त्वदचि, युगलं प्राप्य सर्वसिद्धिमवाप्नुयाम् । महामुनिमिति स्तुत्वा राजर्षिः स महातपाः ॥३४७ प्राप्तवान् परमैकान्त्यं तत्प्रसादात्सुसिद्धिदम् । वैशिष्ट्यं पारमैकान्त्य मेतच्छास्त्रं ममाव्ययम् ॥३४८ भारद्वाजादयः सर्वे नृपाश्च जनकादयः । योगिनः सनकाद्याश्च नारदाद्याः सुरर्षयः ॥३४६ वसि(शि)ष्ठाद्या वैष्णवाश्च विष्वक् सेनादयः सुराः । एतच्छास्त्रानुसारेण पूजयामासुरच्युतम् ।।३५० परम वैदिक शास्त्रमेतद्वष्णवमुत्तमम् । ज्ञात्वैव परमैकान्ती पूजयेद्विष्णुमीश्वरम् ॥३५१ इति वृद्धहारीतस्मृतो विशिष्टधर्मशास्त्र वृत्यधिकारो नाम
अष्टमोऽध्यायः॥ .. समाप्ताचेयं वृद्धहारीतस्मृतिः ।
समाप्तश्चायं धर्मशास्त्रस्य (स्मृतिसन्दर्भस्य ) द्वितीयोभागः।
ॐ तत्सद्ब्रह्मार्पणमस्तु ।

Page Navigation
1 ... 692 693 694 695 696