Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
१२२४
वृद्धहारीतस्मृतिः ।
हुत्वाऽऽभ्यं जुहुयात्पश्चाच्छ्रीसूक्तेन समाहितः । अग्निमील इत्यनुवाकेन सावित्र्या वैष्णवेन च ॥ २४७ सर्वेश्च वैष्णवैर्मन्त्रः पृथगष्टोत्तरं शतम् । हुत्वा वेदसमाप्तिभ्व जुहुयाद्देशिकोत्तमः ॥२४८ ततो भद्रासने शिष्यमुपविश्याभिषेचयेत् । चतुर्भिर्वेष्णवैर्मन्त्रैः सूक्तैस्तत्कलशोदकैः ॥२४६ ऋत्विग्भिर्ब्राह्मणैः शिष्यमभिषिच्याऽथ देशिकः । कौपीनं कटिसूक्तश्च तथा वस्त्रञ्च धारयेत् ॥ २५० ऊर्ध्वपुण्ड्राणि पद्माक्ष तुलसीमालिकेऽपि च ।
शांत्तरे समासीनमाचान्तं विनयान्वितम् ॥२५१ अध्यापयेद्वैष्णवानि सूक्तानि विमलानि च । ध्यापकान् वैष्णवान् मन्त्रानन्यांश्चापि विधानतः ॥ २५२ तदर्थन्यासमुद्रादि सर्षिश्छन्दोऽधिदैवतम् । तस्मिन्निवेश्य सद्वृत्तौ शासयेच्छासनाच्छ तेः ॥२५३ शासितो गुरुणा शिष्यः सवृत्तौ सत्पथे स्थितः । अर्चयेत्परमैकान्त्य सिद्धये हरिमव्ययम् ॥२५४ आचार्यात्समनुप्राप्त विग्रहं सुमनोहरम् । लब्ध्वाऽथ विधिना विष्णोः पूजयेत्तदनुज्ञया ।। २५५ पूर्वऽह्नि पूर्ववत्पूज्यः श्रौतेनैवोपचारकैः । ताभिरेव च हुत्वाऽथ ऋग्भिराज्यं तथाक्रमात् ॥ २५६ शय्यासूक्तान्तमाज्येन हुत्वाऽग्निं वैष्णवोत्तमः । अध्यापयित्वा तान् मन्त्राम् वैदिकान् वैदिकोत्तमः || २५७
[ अष्टमी

Page Navigation
1 ... 683 684 685 686 687 688 689 690 691 692 693 694 695 696