Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 688
________________ ध्यायः] वैष्णवप्रशंसावर्णनम् । १२२० ऋतुसाहस्रिणं वाऽपि लोके विप्रमवैष्णवम् । चण्डालमिव नेक्षेत वर्जयेत्सर्वकर्मसु ॥२८० भगवद्भक्तिदीप्ताभिदग्धदुर्जातिकल्मषः । चण्डालोऽपि बुधैः श्लाघ्यो न तु पूज्यो ह्यवैष्णवः ।।२८१ शङ्खचक्रोध्वंपुण्ड्रादिरहितं ब्राह्मणाधमम् । पूजयिष्यति यः श्राद्ध सर्वकर्मास्य निष्फलम् ।।२८२ तिर्यकाण्डधरं विप्रं यः श्राद्ध भोजयिष्यति । पितरस्तस्य यान्त्येव कालसूत्रं सुदरुगम् ।।२८३ ऊर्ध्वपुण्ड्रधरं विप्रं चक्राकृितभुजं तथा। पूजयिष्यति यः श्राद्ध गया श्राद्धायुतं लभेत् ।।२८४ शङ्खचक्रोर्ध्वपुण्ड्रायरन्वितं वैष्गवं द्विजम् । भक्या सम्पूजयेद्यस्तु देवें पित्र्ये च कर्मणि ॥२८५ कल्पकोटिसहस्राणि कल्पकोटिशतानि च। : . यास्यन्ति पितरतस्य विष्णुलोकं सुनिर्मलम् ।।२८६ ऊर्ध्वपुण्ड्रधरं विप्रं तप्तचक्र कितांसकम् ।। श्राद्ध सम्पूजयेद्यस्तु गयाश्रद्धायुतं लभेत् ।।२८७ वाचक्रण विधिना बाहुमूलेन लाञ्छितः । पुनाति संकलं लोकं नारायण इवाघभित् ।।२८८ अविद्यो वा सविद्यो वा शङ्खचक्रोर्ध्वपुण्डधृत् । ब्राह्मणः सर्वलोकेषु पूज्यमानो हरियथा ।।२८६ दुराशी वा दुराचारी शङ्खचक्रोर्ध्वपुण्ड्रधृत् । नृणां हन्ति समस्ताचं तमः सूर्योदये यथा ॥२६०

Loading...

Page Navigation
1 ... 686 687 688 689 690 691 692 693 694 695 696